________________
श्री अजितप्रभुचरितम् सर्ग: - १
१२
तारुण्यं मे गतप्रायं, वार्द्धकं सविधे स्थितम् । तदङ्गजं विना व्यर्थं गार्हस्थ्यं हा गमिष्यति ॥ ११०॥
कुलाधारः स्मराकारः, सद्मश्रीनायकः सुतः । केनोपायेन मे भावी, नयनाम्भोजभास्करः ॥१११॥ एवं विकल्पप्रालेयग्लपितानननीरजम् । करन्यस्तकपोलं तं, प्रियं वीक्ष्य प्रियाऽवदत् ॥११२॥ 'अश्रुतदृष्टपूर्वकं, मालिन्यं नाथ ! ते मुखे । केऽमी निःश्वासदण्डा वा, दीर्घा दुःखौघसूचकाः ॥ ११३॥ आमयः कोऽपि ते कायं, किं प्राणेश ! विबाधते ? | अप्रसादो भुवो भर्त्तुरभूद्धेतोः कुतोऽपि वा ? ॥११४॥ जज्ञे वा काऽपि रैहानिरिष्टनाशोऽथवा क्वचित् ? । किंनिमित्तमिदं दुःखं ?, गोप्यं नो चेत्तदुच्यताम् ॥११५॥ कृताऽस्मि सुखसम्भारभाजनं सर्वदा त्वया । प्रसीद तद्दुःखभागमपीदानीं प्रयच्छ मे ॥ ११६ ॥ श्रेष्ठी जजल्प 'नो कश्चिदामयो मम वल्लभे ! । अप्रसादोऽवनीभर्त्तुः, कुतो न्यायाध्वचारिणः ? ॥११७॥ नार्थहानिर्नेष्टनाशः, का च त्वां प्रति गोप्यता ? | निष्पुत्रतैव मर्माविच्छल्यतुल्या दुनोति माम्' ॥११८॥ ज्ञातपत्याशया संत्या, ततो मधुरमूचुषी । 'सुकरे कर्मणि स्वामिन् !, कः खेदस्तव मेदुरः ॥ ११९॥
१. सत्यभामा ।