SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ दाने मङ्गलकलशकथा धनदं धनपूरेणाऽनुकुर्वन् कृतिनां वरः । धनदत्ताह्वयस्तत्र श्रेष्ठी श्रेष्ठगुणोऽजनि ॥ ९९ ॥ येन मानससौधे स्वे, स्थिरसद्दर्शनासने । आस्यते स्म सुखं धर्मभूपतिर्बहुमानतः ॥ १००॥ क्षीरसागरडिण्डीरपिण्डपाण्डुरशीलभाक् । तस्य प्रियाऽभवत् सत्यभामा सत्यवचोनिधिः ॥ १०१ ॥ प्रेमाम्बुधिं स्फूर्जयतोरजस्रमवियुक्तयोः । समाः शनैस्तयोर्जग्मुः, कलाभृज्ज्योत्स्नयोरिव ॥ १०२ ॥ स्वल्पावशेषरजनौ, कदाचिज्जातजागरः । श्रेष्ठी शिष्टशिरोरत्नं चिन्तयामासिवानिति ॥१०३॥ 'पूर्वपुण्यवशात् पद्माकेलिसद्माऽभवं भृशम् । अमोदयं स्वमित्राणि, पात्रवर्गमपूजयम् ॥१०४॥ राजप्रसादतरणौ, दीप्ते नित्योदयस्पृशि । सर्वाशाभासिनि ममासज्जनैः कुमुदायितम् ॥ १०५ ॥ बहु किं ? कृतकृत्योऽस्मि, सर्वथा किन्तु दूयते । मानसं मे निजकुलानन्दनं नन्दनं विना ॥१०६॥ किं करोमि धनैः स्वर्णै, रूप्यैर्मुक्ताफलैरपि । प्रवालैः सिचयैर्यद्वा, यन्नेक्षे नन्दनाननम् ॥१०७॥ कलङ्किनं चन्द्रमसं, पद्मनालं सकण्टकम् । अपेयपाथसं सिन्धुं, बुधं दारिद्र्यविद्रुतम् ॥१०८॥ ११ स्वल्पायुषं च गुणिनं, धनवन्तं निरङ्गजम् । सृजन् हन्तैष दुर्वेधाः, खलानां नाग्रणीः कथम् ? ॥१०९॥ युग्मम् ॥ १. वर्षाणि ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy