SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १० श्रीअजितप्रभुचरितम् सर्गः-१ सत्पात्रपाणिकमले, कमलां वासयन्ति ये ।। सुस्थानारोपहष्टेव, तानसौ सेवतेऽनिशम् ॥८९।। सच्चित्त-वित्त-पात्राणां, संयोगो दुर्लभो भुवि । लभ्यो भव्यैर्भाविभद्रैः, कैश्चिदेव कथञ्चन ॥१०॥ दानात् सौभाग्यमारोग्यं, प्राज्यं राज्यं यशः परम् । यथा मङ्गलकलसः, प्राप माप ! तथा शृणु ॥९१।। अत्रैव जम्बुद्वीपेऽस्ति, वर्षं भरतसञकम् । तस्या॰ दक्षिणे देशोऽवन्तिनामा रमास्पदम् ॥९२॥ श्रीयुगादिजिनेशस्य, तनयोऽवन्तिवर्द्धनः । अतिष्ठिपत् स्वनाम्नाऽयं, रामणीयकमन्दिरम् ॥१३॥ तत्राऽस्ति विश्वविख्यातस्फारऋद्धिविराजिनी । अवन्ती नाम नगरी, नानाश्चर्यविलासभूः ॥९४।। यत्र चैत्योच्चयाग्रस्था, हैमाः कुम्भाः शुभात्मनाम् । शिवा[ध्व]यायिनां स्वार्थसिद्धिसूचाकृतो बभुः ॥१५॥ तत्र राजा वैरिसिंहः, सिंहतुल्यपराक्रमः । आचक्राम परान् प्रौढोपायो न्यायोज्जितान्तकः ॥९६।। यस्य क्रमनखज्योतिर्जले प्रत्यर्थिपार्थिवाः । प्रतापहव्यवाहेन, तापिताः शास्तुरन्वहम् ॥९७॥ सर्वाङ्गसङ्गिलावण्यपूर्णा पुण्यनिकेतनम् । आसीत्तस्य प्रिया सोमचन्द्रा सोमसमानना ॥९८॥ १. मोक्षमार्गगामिनाम् । २. अग्निना ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy