SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ धर्मस्य फलम् 'राजन् ! हृष्टोऽस्मि नितरां, धर्मजिज्ञासया तव । यत्नत्वान्वेषिणी बुद्धिः, प्रादुःष्यान्नोरुकर्मणाम् ॥७८॥ सावधानं शृणु क्ष्माप !, पापप्रकरवर्जित ! । सद्धर्मस्य फलं वच्मि, स्वरूपं च यथाक्रमम् ॥७९॥ उत्तमं मङ्गलं धर्मो, धर्मः सौख्यद्रुकाननम् । धर्मो दुःखाद्रिदम्भोलिर्धर्मः श्रीवल्लिवारिमुक् ॥८०॥ धर्मतः सुकुलावाप्तिर्धर्मतो निर्मलं यशः । धर्मान्निरुपमं रूपं, धर्मादारोग्यमद्भुतम् ॥८१॥ धर्मं ब्रुवन्ति सर्वार्थसाधकं दुःखबाधकम् । एतस्य तु स्वरूपं न बुध्यन्ते जडबुद्धयः ॥८२॥ , अर्हता विमलज्ञानविज्ञातजगता स तु । दान-शील-तपो-भावभेदादूचे चतुर्विधः ||८३ || दानं सर्वसुखस्थानं, शीलं मूलं शिवश्रियः । तपः पुण्यद्रुमावापो, भावना भववर्द्धिनौः ॥ ८४ ॥ अमुं चतुर्विधं धर्मं, ये धन्याः पर्युपासते । तेऽध्यासते सिद्धिसौधं, सिद्धानन्तचतुष्टयाः ॥८५॥ युग्मम् ॥ दानं शारदशीतांशुकान्तिकान्तयशस्करम् । दानं स्याच्छक्रचक्र्यादिसाम्राज्यस्यापि कारणम् ॥८६॥ दानं दत्तं निर्विशेषमप्यङ्गिष्वनुकम्पया । सर्वभोगोपभोगश्रीसामग्रीहेतुतां श्रयेत् ॥८७॥ पात्रे तु विहितं दानं, चिन्तातीतफलप्रदम् । सुक्षेत्रोप्तस्य बीजस्य, फलधिं हि प्रमाति कः ? ॥८८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy