SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभुचरितम् सर्गः - १ विदुषामप्यमीषां मे, मनोहारी न वाक्क्रमः । तन्मया कतमो धर्म:, श्रयणीयः शिवार्थिना ॥६८॥ यदि वा किं वृथा चिन्तां कुर्वे क्लेशैककारणम् । पुरो विमलबुद्ध्याख्ये, सत्यस्मिन् मन्त्रिपुङ्गवे ॥६९॥ अयं ह्यशेषशास्त्रज्ञस्तत्त्वातत्त्वविवेकिताम् । कर्त्तुं क्षमो मानसौकाः, क्षीरनीरान्तरं यथा ॥ ७० ॥ वयसः परिणामेन, बिभ्राणोऽनुपमां मतिम् । ममाऽयं पितृदेशीयः, सद्गुरुप्रतिमोऽथवा ॥७१॥ तन्मामेष विशेषेण, यं धर्मं ननु वक्ष्यति । निर्वृतिनगरीं गन्तुं, मतः पन्थाः स एव मे ॥७२॥ ध्यात्वेति मन्त्रिवदने, प्रसादविशदां दृशम् । न्यस्यन्नरेश्वरोऽवादीन्, मृद्वीकामधुरं वचः ॥७३॥ 'मन्त्रिन् ! सौम्यतया सोमो, गाम्भीर्येण धुनीधवः । बुद्ध्या वृन्दारकाचार्यो, भवानेवाऽवनीतले ॥७४॥ त्वया स्वबुद्धिमाहात्म्यान्निहता अंहिताः समे । दुनोति धर्मसन्देहस्त्वेको मामहितः परः ॥७५॥ तद्वाताय जवाद्वाणी, कृपाणीयति तेऽनिशम् । प्रयुङ्क्ष्व मादृशां मुग्धमतीनां हितहेतवे ॥७६॥ इत्थं भूपगिरा कादम्बिन्येव सचिवोत्तमः । नीलकण्ठ इव प्राप्तः, प्रमोदमतनोद् गिरम् ॥७७॥ १. हंसः । २. पितृतुल्यः । ३. द्राक्षामधुरम् । ४. समुद्रः । ५. शत्रवः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy