________________
धर्मचर्चा
तस्यां संसदि सम्भाषं, क्षितौ तन्त्रविशारदाः । रचयाञ्चक्रिरे धर्मगोचरं सुचिरं मिथः ॥५८॥ कश्चिज्जजल्प 'कल्पद्रुरिव सङ्कल्पितप्रदः । धर्मः परोपकाराद्यैः, सदुपायैरुपाय॑ते' ॥५९॥ परो वक्ति स्म 'सुव्यक्तं, धर्मं जानीध्वमुज्ज्वलम् । अभ्यर्चनाद्देव-पित्रतिथीनां श्रुतिसम्मतात्' ॥६०॥ वावदूकोऽवदच्चान्यो, 'व्रतमात्रविचारणा । कुलक्रमागतं धर्म, साधयन्तु मनीषिणः' ॥६१॥ अलापीदपरस्तुण्डताण्डवं स्फारयन्निजम् । 'न स्तः प्रत्यक्षालक्ष्यत्वाद्धर्माधर्मी खपुष्पवत्' ॥६२।। एवं विविधभङ्गीभिर्विवादं तन्वतस्तकान् । वीक्ष्य प्रेक्षावतां मुख्यः, क्षमानाथो व्यचिन्तयत् ॥६३॥ 'क्रियाः परोपकाराद्याः, सत्पुंस्त्वं सूचयन्ति हि । ताभिर्विशिष्टः स[द्] दृष्टो, धर्मो निश्चीयते न तु ॥६४।। श्रुतिप्रोक्तं च देवादिपूजनं हिंसयाऽङ्कितम् । कथं तत्र भवेद्धर्मः, कृशानाविव शीतता ॥६५।। यदि वाऽयं क्रमायातस्तहमी धीवरादयः । मीनादिघातप्रवणाः, सुतरां मार्गगामिनः ॥६६॥ धर्माऽधर्मों न विद्येते, इति प्रलपितं वृथा । ऋद्ध-दुःस्थादिवैचित्र्यस्यान्यथानुपपत्तितः ॥६७॥
१. आकाशकुसुमवत् । २.नृपः । ३. अग्नौ ।