SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ६ श्रीअजितप्रभुचरितम् सर्गः - १ सच्चकोरसुंधाभानुर्गुणमाणिक्यरोहणः । तस्य भूपस्य समभूद्राज्यचिन्ताविधायकः ॥४८॥ त्रिभिर्विशेषकम् ॥ शृङ्गारमञ्जरीकुक्षिशुक्तिमुक्तामणिः सुतः । हरिवाहननामाऽभूत्, सद्गुणस्तस्य भूपतेः ॥४९॥ अन्येद्युर्नरशार्दूलः, कृतप्राभातिकक्रियः । सुधर्मासुषमाखर्वगर्वसर्वस्वजित्वरे ॥५०॥ सदसि प्रोल्लसद्रत्नप्रभापूर्णककुम्मुखम् । सिंहासनमलञ्चक्रे, पूर्वाद्रिमिव भास्करः ॥ ५१॥ युग्मम् ॥ सुधादीधितिसङ्काशस्फुरदातपवारणः । क्वणत्कङ्कणवारस्त्रीचाल्यमानोरुचामरः ॥५२॥ प्रतापतापितारातिमण्डलैर्मण्डलेश्वरैः । अनेकैर्भक्तिसम्भारान्नतपादाम्बुजद्वयः ॥ ५३ ॥ नीतिव्रततिपाथोदैर्धृतामोदैर्नियोगिभिः । चकोरैरिव पेपीयमानवक्त्रेन्दुदीधितिः ॥५४॥ अध:कृतधनाधीशैर्बहुभिर्व्यवहारिभिः । रत्नालङ्काररम्याङ्गैः, परितः परिवारितः ॥५५॥ विद्यावारिधिवातापिविपक्षैः क्षतसंशयैः । मेधाविभिः सुधाप्रख्यगीर्भिरानन्दितश्रुतिः ||५६|| प्रत्यक्षो वासव इव, विशामीशो मनांसि न । केषां प्रमोदयामास, वाससद्म जयश्रियः ? ॥ ५७|| षड्भिः कुलकम् ॥ १. चन्द्रः । २. विद्यासागरपाने अगस्तिसदृशैः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy