SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विमलवाहनस्वरूपप्रथमभववर्णनम् प्रतापतपने यस्य, तीव्र तपति सर्वतः । वैरिपार्थिवकासारा, भृशं कार्यमशिश्रियन् ॥३८॥ सदा यस्य यशःसोमे, शुभ्रीकुर्वति विष्टपम् । अरिनारीमुखाब्जानि, युक्तं विच्छायतां ययुः ॥३९॥ अर्थिसार्थसुरमणिर्वैरिवंशाशुशुक्षणिः । भीतानां त्रायकः सोऽधाद्, दानयुद्धर्मवीरताम् ॥४०॥ सोऽत्यजत् स्वाङ्गजमपि, सदोषं मललीलया । सगुणं बहु मेनेऽन्यमप्यारण्यप्रसूनवत् ॥४१॥ कृत्याकृत्यविभागज्ञः, सुकृतैकविकाशिधीः । स शश्वत् सर्वजीवेषु, करुणाईँ मनो दधौ ॥४२॥ आददानः करं लोकादुचितं शुचितानिधिः । दासीकुर्वन्नरिक्ष्मापान्, सोऽर्थसार्थमपप्रथत् ॥४३।। कान्तं कान्तापरीरम्भरसलालसमानसः । स शचीकामुकमपि, जहास महसां निधिः ॥४४॥ एवं धृतावधानोऽसौ, परस्परमबाधया । त्रिवर्गं साधयन्निन्ये, वासरान् सुखभासुरान् ॥४५॥ मन्त्री विमलबुद्धयाख्यो, बुद्धिराजीविनीरविः । सीमा सुकृतिनां स्फूर्जत्तत्त्वातत्त्वविवेचनः ॥४६॥ चतुर्दिक्श्रीसमाकृष्टिमन्त्रानिव यथोचितम् । सदुपायान् प्रयुञ्जानः, सामादींश्चतुरोऽनिशम् ॥४७॥ १. 'युद्धवीरो दयावीरस्त्यागवीरश्च सोऽभवत्' इति त्रिषष्टि० २।१।४१ ॥ २.बुद्धिकमलिनीसूर्यः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy