________________
कलिकालकल्पतरुश्रीपार्श्वजिनस्तोत्रम्
(द्रुतविलम्बितम्) कलुषपांशुसमूहसमीरण !, मरण-जन्म-जरा-ऽऽमयवारण ! । अगद ! पार्श्वजिनेश ! कृपारसाद्, मम पुनातु सदा हृदयाम्बुजम् ॥१॥ त्रिदश-दानव-मानवसेवितांऽह्रियुगपङ्करुहस्तव भक्तितः । रुचिर ! पार्श्व ! कृपारत ! मेऽन्वहं, भवतु ते स्मृतिसागरमग्नता ॥२॥ अशिवहृत् ! सुखकृद् ! भुवनेश्वर !, शरणदायक ! पार्श्वजिनेश्वर ! । सुविनयावनता प्रणमाम्यहं, स्मृतिरता हृदयोद्गतभावतः ॥३॥ सकलदुष्कृतदारुविभावसुं, भविकपद्मविबोधदिवावसुम् । परमपार्श्वजिनं सततं श्रये, स्वगुणविस्तृतवैभवलब्धये ॥४॥ स्तवनभावितमद्हृदयाधिपः, प्रकटदिव्यगुणप्रकराधिपः । विजितदुर्जयमोहधराधिपो, विजयते प्रभुपार्श्वजिनाधिपः ।।५।। अघतमःपटले तपनायते, शिवपथे ननु या सुरथायते । भवसमुद्रतरी तव दासता, मिलतु सा प्रभुपार्श्व ! भवे भवे ॥६॥ भवरुगौषध ! मोहनिवारक !, निखिलदोषपराङ्मुख ! देहि मे । वरद ! पार्श्व ! मनःशुचितां परामशुभवृक्षगजेन्द्रसमां द्रुतम् ।।७।। कमठ-नागपतौ सममानस !, महिममन्दिर ! पार्श्वजिनेश ! माम् । चरणपङ्कजसेवनतत्परामंव सदा भवसागरतोऽवराम् ॥८॥ अश्वसेनकुले चन्द्रः, सिद्धान्तरससंस्तुतः । पार्थो वितनुतां दिव्यां, विनयपूर्णसम्पदम् ॥९॥
१.तव । २. हृदयोद्भूतभावतः । ३. तपनः इवाचरति । ४. रक्ष । ५. अधमाम्