________________
घ्राणेन्द्रियासक्तौ गन्धप्रियकथा
४२७
आजिघ्रन् कुसुमादीनि, व्यरमच्च न जातुचित् । ततो गन्धप्रिय इति, नाम्नाऽसौ पप्रथे जने ॥६७८॥ अथाऽस्य यौवनस्थस्य, विमाता विकृताशया । दध्यौ यथा मम सुतो, लघुर्येष्ठस्त्वसौ ततः ॥६७९।। उपायान्मारयाम्येनं, पश्चान्मम सुतः सुखम् । निःसपत्नतया राज्यलक्ष्म्याः पात्रं भवेदिति ॥६८०॥ कुमारः स तु नद्यम्बुन्यपरैर्नावमाश्रितः । वयस्यैनौगतैः सार्धं, खेलति स्म दिने दिने ॥६८१॥ विमात्राऽथो पुटिकायां, बद्धं किञ्चन तद्विषम् । जीवितं यन्नयत्यन्तं, घ्रातमात्रमपि क्षणात् ॥६८२।। पुटिकाऽप्यथ सैकस्मिन्, विनिक्षिप्ता समुद्गके । अक्षेपि लघुपेटायां, सोऽपि पेटान्तरे च सा ॥६८३॥ एवमन्यान्यपेटासु, बह्वीषु तद्विषं क्रमात् ।। क्षिप्त्वा तस्यास्तरङ्गिण्या, ऊर्ध्वदेशे प्रवाहितम् ॥६८४॥ तरन्ती विषपेटी सा, कुमारस्यान्तमागता । उद्घाटिता क्रमात्तेन, यावत् प्राप्तः समुद्गकः ॥६८५॥ तमुद्घाट्या[ऽथ] पुटिकां, छोटयित्वा च तां विषम् । कुमारः सादरं जिघ्रन्, सद्यः प्राणैर्व्यमुच्यत ॥६८६।। कथां गन्धप्रियस्यैतां, कृत्वा चेतसि सद्धियः ! । सदसद्गन्धयोर्मूच्र्छा, कुत्सां च त्यजताऽनिशम् ॥६८७।।