SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४२६ श्रीअजितप्रभुचरितम् सर्गः-६ क्रियासमभिहारेण, प्रवृत्तं तं तथाऽन्यदा । गुरवो हितशिक्षकनिरता अशिषन्निति ॥६६८॥ 'वत्स ! मा स्म करो रागं, त्वमिष्टे वस्तुनि क्वचित् । इतरस्मिन् द्वेषमपि, किन्तु माध्यस्थ्यमाश्रय ॥६६९।। यत् पुद्गलपरीणामो, लोके सर्वोऽप्यशाश्वतः । उपाधेरेव सौगन्ध्य-दौर्गन्ध्यप्रविलोकनात् ॥६७०।। तथाह्यशुचिदेहस्य, संसर्गात् पूतिगन्धिताम् । अवाप्नुयाद्] घनसार-श्रीखण्डाद्यं सुगन्ध्यपि ॥६७१॥ सुगन्धिरपि चाहारः, सच्छालि-व्यञ्जनादिकः । पश्य कण्ठादतिक्रान्तोऽशुचितां लभते क्षणात् ॥६७२।। दुर्गन्धान्यपि पानीयादीनि संस्कारयोगतः । स्पष्टमेव निरीक्ष्यन्ते, सम्प्राप्तानि सुगन्धताम् ॥६७३।। एवं विबोधतां सारधियामस्थिरताजुषि । काऽस्तु मूर्छा जुगुप्सा वा, पुद्गलौघे शुभाशुभे ॥६७४।। जुगुप्सते च यानन्, विष्ठादींश्छन्ननासिकः । दृष्टस्तेषां हि सर्वेषां, सम्भवो निजवम॑तः ॥६७५।। शश्वज्जुगुप्समानश्चोन्मादमाप्नोति मानवः । तदिष्टानिष्टयोर्मूर्छा-जुगुप्से त्यज धीनिधे !' ॥६७६।। एवं बहूदितोऽप्येषोऽजस्रं घ्राणवशङ्गतः । वस्तून्यन्वेषयामास, शुभगन्धानि सर्वतः ॥६७७।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy