________________
घ्राणेन्द्रियासक्तौ गन्धप्रियकथा
४२५
महत्तमस्य कस्यापि, पुरस्तत्र जनङ्गमीम् । समं कान्तेन गायन्ती, शस्तरूपां निरैक्षत ॥६५८॥ पश्यंश्च सुचिरं कामपारवश्यं गतोऽधमः । तामाशिश्लेष धावित्वा, कृत्याकृत्यबहिर्मुखः ॥६५९॥ तद्भ; कुपितेनाऽथ, हतः ककिया हृदि । रौद्रध्यानी मृतोऽभूत् स, तृतीयभुवि नारकः ॥६६०॥ परिपूर्याऽऽयुरुत्कृष्टमुद्वृत्तश्च भ्रमिष्यति । अनन्तं भवमुद्भूतविविधातिविडम्बितः' ॥६६१।। एवं श्रुत्वा स राजर्षिरिन्द्रियग्राममुल्वणम् । निर्जित्याऽऽसादितानन्तज्ञानः सिद्धि समासदत् ॥६६२।। श्रुतलोलाक्षदृष्टान्ता, भविनो ! भवभीरवः ! । निगृह्णीताऽर्थेऽनुचिते, मञ्जु चक्षुः प्रवृत्तिमत् ॥६६३।।
इति चक्षुरिन्द्रिये लोलाक्षकथा ॥ ग्रन्थाग्रम् २०० अ. ८ ॥ गन्धप्रियः कुमारोऽथ, घ्राणेन्द्रियवशीकृतः । यथा प्राणात्ययं प्राप, तथा सम्प्रति दर्श्यते ॥६६४।। वसन्तपुरसज्ञेऽभूत्, पुरे विक्रमशेवधिः । कीर्तिशैवलिनीशैलो, नरसिंहाभिधो नृपः ॥६६५।। तस्य ज्येष्ठः सुतः सर्वगुणपादपमेदिनी । पित्रोरानन्दयामास, हृदयं विनयोदधिः ॥६६६।। किन्तु पश्यति यत् किञ्चिद्वस्तु तत् सर्वमप्यसौ । आजिघ्रति करोतीष्टे, राग द्वेषं परे पुनः ॥६६७॥