________________
४२४
श्रीअजितप्रभुचरितम् सर्गः-६
अब्रूत यतिनाथोऽथाऽक्षाण्येतानि परस्परम् । संहतान्येव पापानि, प्रवर्त्तन्ते प्रजापते ! ॥६४७॥ यत्रार्थेऽभिनिवेशं हि, बध्नात्येकमपीन्द्रियम् । प्रायस्तत्रैव सर्वाणि, प्रवर्त्तन्ते मनोवशात् ॥६४८॥ दृष्टेस्त्वयं विशेषो यदन्धानां करयष्टिवत् । सर्वाक्षाणामियं हेतुः, स्वस्वार्थेषु प्रवर्त्तने ॥६४९॥ यस्य दृष्टिर्वशे तस्य, वशेऽक्षाण्यखिलान्यपि । सा पुनर्नो वशे यस्य, सर्वाक्षाणां वशो हि सः ॥६५०॥ वराकोऽयं क्षिपत्यक्षि, ततश्चेतः प्रवर्त्तते । तेनाऽऽकृष्टः स्पर्शनादिरक्षौघोऽथ विजृम्भते ॥६५१॥ यथाऽयं पुरुषः शेषमपि विश्वं तथैव हि । तारतम्यात् पराभूयमानं विद्धीन्द्रियैर्नृप ! ॥६५२॥ कश्चिदेव पुनस्तीव्रजैनव्रतकृपाणभृत् । धृतसन्तोषकवचस्तज्जयं कुरुते कृती' ॥६५३॥ श्रुत्वेत्युर्वीपतिस्तेषामसाधारणवैरिणाम् । जयधृतोद्यमः पुत्रं, राज्यभारे न्ययोजयत् ॥६५४|| स्वयं कतिपयैः पत्नी-सामन्त-सचिवादिभिः । समं जिनालयेष्वर्चाः, कृत्वा चारित्रमाददे ॥६५५।। स राजर्षिरथाऽप्राक्षीत्, पुनः केवलिनं मुनिम् । 'अगान्नरः स कुत्रेति,' ततोऽभाषत साधुराट् ॥६५६।। 'इतः पलाय्य चलितः, पुरस्योपान्तभुव्यसौ । अनवस्थितचेतस्कः, पर्याट मदनोत्कटः ॥६५७।।