________________
चक्षुरिन्द्रियासक्तौ लोलाक्षकथा
४२३ भगवत्सन्निधौ युक्तो, निग्रहो नेति भूभुजा । तं विमोच्य पुनः पृष्टो, मुनिनाथः सविस्मयम् ॥६३६।। 'तथाऽयं मारितोऽप्युच्चैः, कथं जीवति नाथ ! नु ? । कथं वा पापमीदृक्षं, व्यवस्यत्यन्तिकेऽपि वः ?' ॥६३७।। केवल्युवाच 'सत्यायुष्युपक्रमविवर्जिते । शक्रोऽपि नो मारयितुं, शक्तोऽन्यः किं पुनर्नृप !' ॥६३८॥ ततोऽतिविस्मितायोर्वीनाथाय मुनिपुङ्गवः । न्यवेदयद् व्यतिकरं, तं पाशत्रुटनादिकम् ॥६३९।। अन्यच्च मेदिनीजाने !, चक्षुषा परतन्त्रताम् । प्रापितोऽयमनात्मज्ञोऽकार्यमेवं व्यवस्यति ॥६४०॥ भूयो भूपोऽवदन्नाथ !, यदसौ सविधेऽपि वः । अकार्यादृतहत्तत् किं, नाश्रौषीद्धर्मदेशनाम् ? ॥६४१॥ आमेति गुरुणा प्रोक्ते, नृपः प्राह 'जगद्गुरो ! । किं बाधिर्यात्ततो ज्ञानी, प्रोचे 'नैवं नरेश्वर ! ॥६४२॥ किन्त्वस्य चिक्कणं पापं, विद्यते निरुपक्रमम् । तानि सोपक्रमाण्येव, च्छिद्यन्ते नः पुनर्गिरा ॥६४३॥ ततो धर्मं कथयतामपि नः पदमप्यहो ! । सङ्क्रान्तं श्रवणे नाऽस्य, हताशस्य नरेश्वर ! ॥६४४॥ दर्शनेन्द्रियचौरेण, हृते च हृदि नेत्यपि । विवेदाऽयं यदस्त्यत्र, कः ? कोऽहं ? कोऽथवा यतिः ?' ॥६४५॥ नृपोऽभाषत 'द्रष्टव्यदर्शनाच्चक्षुरिन्द्रिये । कृतार्थे स्पर्शलुब्धः किं, देव्यामेष प्रधावति ?' ॥६४६।।