________________
४२२
श्रीअजितप्रभुचरितम् सर्गः-६ इतश्च माधनो देव्या, समं केवलिनं मुनिम् । वन्दित्वा वि[न]याद् योग्यप्रदेशेऽस्थाद्धाग्रणीः ॥६२६।। धर्मं निशम्याऽवसरे, पप्रच्छाऽथ कृताञ्जलिः ।। 'भगवन् ! ज्ञानभानो ! यस्तदाऽघाति मया पुमान् ॥६२७।। स कथं निन्दिते बालैरपि दृश्यमहापदि । अकार्ये तादृशे स्वामिन् !, प्रवृत्त इति बोधय ॥६२८॥ ज्ञानी जगाद 'भूमीश !, दुर्जयैः करणैर्नरः । प्रेरितः कुरुते किं किं, नाकृत्यमशुभायतिः ? ॥६२९॥ एकोऽपि भटकोटीर्यो, जेतुं सामर्थ्यभाग् भवेत् । एकेनाऽपीन्द्रियेणाऽहो, तस्याऽपि महिमाऽस्यते ॥६३०॥ व्योमकेशो हेषीकेशो, लोकेशः कौशिकोऽपि च । अन्येऽपि लीलयैवैतैर्हृषीकैः किङ्करीकृताः ॥६३१॥ शास्त्राब्धेः पारदृश्वानस्तत्त्वविज्ञानशालिनः । भूत्वाऽपि बालवत् कष्टं, चेष्टन्ते करणेरिताः ॥६३२॥ किं बहूक्तेन यच्छिष्टगर्हितं कार्यमङ्गवान् । कुरुते विद्धि तत् सर्वमक्षाणामेव जृम्भितम्' ॥६३३।। एवं यावन्मुनिबूंते, लोलाक्षस्तावदुन्मनाः । धावन्नालिङ्गितुं देवीं, बद्धो नृपनरैर्दृढम् ॥६३४॥ श्रुत्वा कलकलं राजा, सम्भ्रान्तस्तत्र लोचने । न्यस्यन्नरं मन्तुकृतमुपलक्षयति स्म तम् ॥६३५।।
१. महादेवः । २. विष्णुः । ३. ब्रह्मा । ४. इन्द्रः ।