________________
४२१
चक्षुरिन्द्रियासक्तौ लोलाक्षकथा 'अरे पाप ! किमारब्धं, त्वयेदमतिसाहसम् ?' । इति पृष्टोऽप्यसौ तूष्णीमास्ते शस्तेतरक्रियः ॥६१६।। ततः सर्वां निशां तप्ततैलसेकादियातनाः । प्रापितो विलपंश्चक्रे, दुःखितं लोकमप्यसौ ॥६१७॥ प्रातर्नृपतिनिर्देशात्, कोट्टपालेन सत्वरम् । बाह्योद्याने महावृक्षशाखायामुदलम्ब्यत ॥६१८।। मृतोऽयमिति जानन्तः, पौरा राजनरास्तथा । अपसृत्याऽऽस्पदं स्वं स्वं, जग्मिवांसः क्रमात्ततः ॥६१९॥ कथञ्चित्रुटिते पाशे, सन्ध्यायां पतितो भुवि । निशि शीतलवातेनाऽऽश्वासितः स समुत्थितः ॥६२०॥ निजं च सदनं प्राप्तो, धनवत्या कथञ्चन । पालयित्वा प्रगुणाङ्गो, विदधे दुधियां वरः ॥६२१॥ अन्येधुरेष पृथिवीपतेनिर्गच्छतः पुरात् । महान्तं दुन्दुभिरवं, श्रुत्वा पप्रच्छ कञ्चन ॥६२२।। कुत्र प्रयाति भूमीन्द्रस्ततः सोऽप्यवदच्छृणु । नाम्ना त्रिभुवनभानुः, सम्प्राप्तोऽस्त्यत्र केवली ॥६२३॥ तं नन्तुं नृपतिः सर्वपरीवारसमन्वितः । सान्तःपुरोऽपि सर्वा , याति भक्तिभरोज्ज्वलः ॥६२४॥ इदं निशम्य लोलाक्षः, प्रेक्षितुं सुरसुन्दरीम् । उत्को धनवतीदृष्टि, वञ्चयित्वा प्रधावितः ॥६२५॥ १. उत्कण्ठितः ।