________________
४२०
श्रीअजितप्रभुचरितम् सर्गः-६ कारितो भोजनं देहाभ्यङ्गाद्यैः प्रगुणीकृतः । पृष्टः स सार्थवाहेन, कथमागाद् भवानिह ? ॥६०५।। अभ्यधादथ लोलाक्षः, पुरे राजगृहे यथा । आगां वाणिज्यतोऽहं तन्निखिलं विदितं हि वः ॥६०६।। तिष्ठस्तत्राऽमुना विद्यासाधकेन दुरात्मना । हट्टमार्गानिशि हृतस्तन्मां विसृजताऽधुना ॥६०७|| यथा तत्र गतो भाण्डं, संवृणोम्यखिलं निजम् । पित्रोश्च कथयेताऽल्पैरहोभिः सुत एष्यति ॥६०८॥ एवमाधुत्तरैधूर्तस्तस्मात् पितृवयस्यतः । स्वं विमोच्य द्रुतं राजगृहेऽगान्निजमन्दिरम् ॥६०९॥ 'इयन्त्यहानि कुत्राऽस्था ?,' इति प्रश्नपरायणाम् । [अ]सौ धनवतीं केनाप्युत्तरेण व्यबोधयत् ॥६१०॥ निर्गम्य सुरसुन्दर्या, विरहात् कृच्छ्रतो दिनम् । भीतो निशाटनात् सायमेव गत्वा नृपालयम् ॥६११॥ रहःस्थां स्फारशृङ्गारां, वासौकःस्थामथो निशि । प्रतीक्षमाणां भूमीशागमनं तां निरैक्षत ॥६१२॥ युग्मम् ॥ गत्वाऽभ्यर्णं ततः पापस्तस्या रूपं विलोकयन् । क्षणं चित्रस्थित इव, निमेषोज्झितदृक् स्थितः ॥६१३।। अथ स्मरपराधीनो, धावित्वा यावदाशु ताम् । समालिङ्गति तावत् साऽपससार झटित्यपि ॥६१४॥ अत्रान्तरे चागतेन, नरेशेन निजैनरैः । बन्धयित्वा दृढमयं, कशादिभिरघात्यत ॥६१५॥