________________
चक्षुरिन्द्रियासक्तौ लोलाक्षकथा
४१९ स च तं बहुधाऽऽक्रन्दपरं निजनरैर्दुतम् । बन्धयित्वा निनायैकां, काञ्चनोच्चैर्महाटवीम् ॥५९४॥ अस्थापयच्च शैलस्य, गुहायामथ निर्दयम् । तद्देहाद्रक्तमाकृष्य, मांसखण्डानिकृत्य च ॥५९५।। साधको ज्वलनेऽहौषीद्वारानष्टोत्तरं शतम् । पुपोष पुनरौषध्या, व्रणरोहं विधाय च ॥५९६॥ युग्मम् ॥ पुनस्तथैवाऽष्टशतं, वारानग्नौ स साधकः । जुहाव क्रन्दतस्तस्योत्कृत्य मांसांशमङ्गतः ॥५९७।। एवं कतिपयदिनपर्यन्तेऽसौ मुहुर्मुहुः । छिद्यमानोऽन्वभूद्वाद, वेदनां नरकोपमाम् ॥५९८॥ अध्यायच्च विधे ! क्रुद्धस्त्वं मेऽसून् हरसे यदि । तथाऽपि दर्शय सकृत्, सर्वाङ्गं सुरसुन्दरीम् ॥५९९।। तद्दर्शनात् कृतार्थस्य, मम स्वरुचितं भवान् । विदधातु विषीदामि, यथा प्राणात्ययेऽपि न ॥६००।। इत्थं मानस-शारीरदुःखल[क्ष] विबाधितः । दिनानि कल्पकल्पानि, बहून्येष व्यलङ्घत ॥६०१॥ लोलाक्षस्य पितुर्बालमित्रं सार्थेश्वरोऽन्यदा । काञ्चनपुरवास्तव्यो, नामतो भुवनोत्तमः ॥६०२।। ततो वणिज्यया प्रत्यावृत्तः तत्रैव दैवतः । सार्थं न्यवेशयत्तं च, तथाऽज्ञासीत् परिच्छदात् ॥६०३॥ युग्मम् ॥ झटित्येत्य च तं विद्यासाधकं भयविह्वलम् । नाशयित्वा निजे सार्थे, लोलाक्षमनयत्ततः ॥६०४।।