________________
३८०
श्रीअजितप्रभुचरितम् सर्गः-६ सुधियां बोधतां चाऽस्मिन्, भवे सर्वं चलाचलम् । कुतः शोकपिशाचस्याऽवकाशोऽपि हि सम्भवेत् ?' ॥१९४।। एवं मन्त्रिगिरा जाग्रद्विवेकः शोकवर्जितः । सगरोऽवोचत गिरं, भवनिर्वेदबन्धुराम् ॥१९५।। 'सचिवेन्द्र ! त्वया साधु, साध्विदं प्रतिपादितम् । क्षणाद् दृष्टं क्षणान्नष्टं, सर्वमेव भवेऽत्र हि ॥१९६।। शैलाऽऽपगामहापूरसध्यग् यौवनमङ्गिनाम् । कुशाग्रस्थितपानीयबिन्दुतुल्यं च जीवितम् ॥१९७।। लक्ष्मीस्तडिल्लतालोला, प्रेम बुद्धदसन्निभम् । विषयास्तु सुनासीरकोदण्डनिभविभ्रमाः ॥१९८।। पश्यन्तोऽपीति हा मूढा !, वाञ्छितार्थस्य कस्यचित् । प्राप्तौ नाशे च प्रमदं, खेदं च तन्वते वृथा ॥१९९।। न तूद्विज्य भवाद्भीष्मादमुष्मादुरुदुष्कृताः । साधयन्ति सर्वसङ्गत्यागा[त्] स्वार्थमनुत्तरम् ॥२००॥ न बाधते जरा यावद्, यावद् व्याधिर्न वर्द्धते । यावन्नाऽक्षीणि हीयन्ते, यावन्मृत्युरुपैति न ॥२०१॥ तावद्भगीरथाभिख्ये, जह्वपुत्रे नृपश्रियम् । नियोज्य सचिवाधीश !, चारित्राय यतामहे' ॥२०२॥ यावद्वदति चक्रयेवं, भववैराग्यभृद् भृशम् । तावदष्टापदाभ्यर्णवासिलोकाः समाययुः ॥२०३।। १. गिरिनदीमहापूरसमानम् ।