________________
द्विजेन सगरस्याऽऽश्वासनम्
३७९
'नरनाथ ! यथा त्वं मामन्वशा अधुनैव हि । तथाऽनुशाधि स्वात्मानं, मा मुहः सत्त्वसेवधे ! ॥१८४॥ यस्य भ्राताऽजितस्वामी, जगन्मोहतमोरविः । तस्य ते बोध्यमानस्य, परैर्नाऽपत्रपा किमु ? ॥१८५।। संसारं स्वयमेवामुं, वेत्स्यसारतरं ततः । तवाग्रे किं वयं ब्रूमः, सारासारविवेचक ! ? ॥१८६।। पितृ-मातृ-स्वसृ-भ्रातृ-पुत्र-पुत्र्यादयो ह्यमी । सम्बन्धाः स्वप्नदृष्टाभा, मन्यन्ते तत्त्ववेदिभिः ॥१८७॥ विवेकिन् ! मुञ्च तच्छोकं, धीरतामुररीकुरु । जीवन्ति च म्रियन्ते च, देहिनः स्वस्वकर्मभिः' ॥१८८॥ एवं तत्त्वमयैविप्रवाक्यैर्बोधं क्षणं नृपः । क्षणं च पुत्रपञ्चत्वस्मृत्या मोहमशिश्रियत् ॥१८९॥ ततः सुबुद्धिमन्त्रीन्दुर्गिरा पीयूषतुल्यया । भूपस्य खेदगरलं,तीव्र भेत्तुं प्रचक्रमे ॥१९०॥ 'धर्तुं विधुरता नो ते, युज्यते व्यसने प्रभो ! ।। न हि क्वचित् समुद्रोऽपि, मर्यादां लङ्घते निजाम् ॥१९१।। अन्यच्च महतामेवाऽऽपदो नाऽमहतां पुनः । ग्रस्यते राहुणा पुष्पदन्तावेव न तारकाः ॥१९२।। महतां विकृतिं कर्तुं, शक्तः कालोऽपि नो पुनः । शिशिरोऽपि न शैशियँ, विदधाति विभावसोः ॥१९३॥ १. जगतां मोहान्धकारनाशने सूर्यसमः ।