________________
३७८
श्रीअजितप्रभुचरितम् सर्गः-६ रे दैव ! मदनाकारा, हारा भूमिमृगीदृशः ।
आः ! कुमाराः कथङ्कारं, युगपत् संहृतास्त्वया ॥१७३॥ नागब्रुव ! महापाप !, ममैषां तनुजन्मनाम् । एकस्मिन्नपि नाऽऽसीत्ते, किं कृपा क्रूरतावधे ! ॥१७४॥ हा सेनानीर्वर्द्धके ! हा, हा पुरोधो ! गृहेश ! हा । कुमाराणां परित्राणे, प्रयातं तद्बलं क्व वः ? ॥१७५॥ गजरत्न ! वाजिरत्न !, चक्र-दण्डा-ऽसयः ! किमु । दैवे पराङ्मुखे यूयमप्यभूत तथाविधाः ॥१७६॥ मणे ! काकिणि ! हा चर्म !, च्छत्र ! युष्मासु सत्स्वपि । कुमारा नागखेटेन, तेन व्यापादिता कथम् ? ॥१७७।। पौरुषेणापि महता, साम्प्रतं किं करोम्यहम् ? । न हि प्राणन्ति मे पुत्राः, सगोत्रेऽप्युरगे हते ॥१७८।। हा वत्सा ! ऋषभस्वामिवंशेऽमुष्मिन् सुनिर्मले । अभूतपूर्वमीदृक्षं, कथं मृत्युमवापत ? ॥१७९॥ यो वः स्वेच्छाविहारेऽभूद्भारते [तु] मनोरथः । तमसम्पूर्य हा ! कस्मात्, स्वविहारे व्यधायि सः ॥१८०॥ राज्यश्रियोऽधुना यूयं, धुर्यतां समुपागताः । हताश्च युगपद्दुष्टविधिना निर्दयेन हा ! ॥१८१।। युष्मान् विनाऽद्य मे राज्यश्रिया किं निधिभिः कृतम् । अलं चक्रादिकै रत्नैरेभिर्भ[व]तु चाऽसुभिः' ॥१८२।। एवं विलापिनं मूच्र्छा, गच्छन्तं च मुहुर्मुहुः । चक्रिणं स द्विजोऽवादीददीनवचनस्थितिः ॥१८३॥