________________
सगरस्य विलापः
३७७
पृथग्जन इव माप !, भ्रश्यद्धैर्य ! स्वपूर्वजम् । ऋषभेशं भ्रातरं चाऽजितेशं मा स्म लज्जय' ॥१६३।। राजा दध्यौ स्वपुत्रान्तमिषादेष द्विजो ध्रुवम् । दुर्वचं सूचयामास, ममाऽशेषसुतक्षयम् ॥१६४॥ किन्तु तेषां कुमाराणां, महारत्नविराजिनाम् । भुजौजसाऽप्यजय्यानां, केन नाशो विधीयते ? ॥१६५।। ध्यात्वेति भूमिनाथेन, पृष्टाः किमिदमित्यथ । शशंसुः सचिवाद्यास्तज्ज्वलनप्रभचेष्टितम् ॥१६६।। राजा राज्यश्च तच्छ्रुत्वा, न्यपतन् मूच्छिता भुवि । कथञ्चिल्लेभिरे शीतोपचारैश्चेतनां ततः ॥१६७॥ राज्य: स्वाङ्गभुवां ग्राहं, ग्राहं गुणपरम्पराम् । रुरुदुविलुलत्केशकलापान्तहिताननाः ॥१६८॥ आत्मरक्षाः प्रतीहाराः, सौविदा वारयोषितः । चेटाश्चेट्यश्च पूत्कारैः, पूरयन्ति स्म रोदसी ॥१६९।। राजीवद्भूपतिरपि, त्यक्तधैर्यस्ततो भृशम् । दीर्घनिःश्वासं मुक्त्वाऽरं, विललापेति विह्वलः ॥१७०॥ 'हे कुमारा ! निजं तातं, विरहार्तिप्रपातिनम् । आगत्योद्धरत क्षिप्रं, गता यूयं क्व दूरतः ? ॥१७१॥ सुतास्तातस्य वात्सल्येऽपीक्षिता कापि खण्डना । यद् वो लब्धापमानानामिव कश्चिन्न वक्त्यपि ॥१७२॥ १. स्वपुत्रमरणमिषात् ।