________________
३७६
श्रीअजितप्रभुचरितम् सर्गः ६
त्वयाऽप्यजिततीर्थेश भ्रात्रा भर्त्तर्विवेकिना । वैराग्यभावना नैव, त्याज्या स्वव्यसनोदये || १५३ ।। यतः कालोऽसकौ रङ्कं, चक्रिणं चाऽविचिन्तयन् । प्राणान् पुत्रादिकमपि, हरत्येवाऽकुतोभयः ॥ १५४ ॥ यथा च चक्रभृत् स्वस्या, विपुलद्धेः परिक्षये । बाढं शोचति रङ्कोऽपि स्वीयाल्पर्द्धस्तथा क्षये ॥ १५५ ॥ न शोचिष्यामि पुत्रस्यैकस्य नाशे धियां निधे ! | मा शोचीत् षष्टिसहस्रपुत्रनाशे भवानपि ॥ १५६ ॥
इति द्विजन्मनोऽकाण्डाऽशनिपातनिभं वचः । श्रुत्वा यावन्महीशो ! हा, किमेतदिति दध्यिवान् ॥१५७॥ तावत् प्राक्कृतसङ्केताः, संव्यानस्थगिताननाः । अश्रुस्तिमितभूपीठाः कुमारोपान्तवर्त्तिनः ॥ १५८ ॥ सामन्ता-ऽमात्य-सेनानीप्रमुखाः प्रस्खलत्पदाः । हाहारवं प्रकुर्वाणाः, प्राप्ताश्चक्रभृतः सदः ॥१५९॥ युग्मम् ॥ प्रणम्याऽवाङ्मुखेष्वेषु, यथास्थानं स्थितेष्वथ । कुमाराऽनीक्षणाद्विप्रगिरं संवादिनीं स्मरन् ॥ १६० ॥
"
सद्यश्चक्री दृढं वज्राहतवत् स्थम्भिताङ्गवत् । सुप्तवन्मत्तवच्छून्यो, वैवर्ण्यं प्रत्यपद्यत ॥ १६१ ॥ युग्मम् ॥
धैर्यं तथा त्यजन्तं तं प्रबोधयितुमादृतः ।
,
विप्रः प्रोवाच 'किं चक्रिंस्त्वमप्येवं विमुह्यसि ॥ १६२॥ १. स्वदुः खोदये ।