SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ स्वपुत्रमृत्युमिषाद् द्विजन्मना सगरप्रतिबोधनम् न बालं न जराक्रान्तं,न युवानं न []क्ष्मणम् । न निःस्वं वा जहात्येष, समवर्त्ती सुदारुणः ॥ १४३॥ यद्यनन्तेन कालेनाऽनन्ताश्चक्रयादयोऽपि ते । मृत्युना संहतास्तत् किं शोचस्येकं मृतं सुतम् ? ॥१४४॥ किञ्चाऽसौ मे पिता माता, सोदरस्तनुजोऽथवा । इति च्छिद्रेण शोकोऽयं, विशन् वार्यो विवेकिना ॥ १४५ ॥ पादपे पक्षिण इव, वेश्मन्येकत्र देहिनः । केनापि कर्मयोगेन संसारेऽस्मिन् मिलन्ति यत् ॥ १४६ ॥ स्वस्वकर्मवशात् काले, गच्छन्ति च पृथक् पृथक् । विधातुं तत्र धीराणां, खेदः किं नाम युज्यते ? ॥१४७॥ वैराग्यभावनां नावमिवाश्रित्य द्विजाग्रणीः ! । सद्यस्त्वमुद्धराऽऽत्मानं, मज्जन्तं शोकसागरे' ॥१४८॥ द्विजन्माऽथाऽभ्यधाच्चक्रिन्नद्य मे पुत्रशोकतः । विदतोऽपि भवस्येदं, संतत्त्वं मक्षु विस्मृतम् ॥१४९॥ धीरतां क इवोर्वीश !, न जहाति शुचाकुल: । न हि कल्पान्तवातेन, न कम्पन्तेऽचला अपि ? ॥ १५०॥ धीरस्त्वमिव नो नाथ !, कोऽप्यस्ति जगतीतले । न हि स्थिरो मेरुरिव वर्ण्यते क्वापि कश्चन ॥ १५१ ॥ जैनवाक्यामृतास्वादध्वस्तमोहोऽधुना भवान् । मां प्रबोधितवान् साधु साधु शोचनविह्वलम् ॥१५२॥ ३७५ १. लक्ष्मीवन्तम् । 'लक्ष्मीवान् लक्ष्मणः श्लील:' इति अभि. चिन्ता श्लो. ३५७ । २. स्वरूपम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy