________________
३७४
श्रीअजितप्रभुचरितम् सर्गः-६ अनन्तविज्ञाननिधिः, सुरासुरनमस्कृतः । प्रथमस्तीर्थनाथानां, भगवानृषभप्रभुः ॥१३२॥ विपन्नः सोऽपि कालेन, तस्य ज्येष्ठः सुतस्ततः । आदिमश्चक्रिणामासीद्, भरतो नाम विश्रुतः ॥१३३।। सोऽपि प्राप्तः परं लोकममुष्याऽवरजोऽपि च । बली बाहुबलिः स्थेयोभावं नो भेजिवान् भुवि ॥१३४।। नाम्नाऽऽदित्ययशा आसीत्, सूनुर्भरतचक्रिणः । महायशास्ततश्चाऽभूत्, ततोऽप्यतिबलो नृपः ॥१३५।। ततः परं बलभद्रो, बलवीर्याभिधस्ततः । कीर्तिवीर्यो जलवीर्यो, दण्डवीर्यस्ततः क्रमात् ॥१३६।। एतेऽष्टौ भरतार्द्धस्य, शासितारो महौजसः । अर्हद्व्यूढोष्णीषधरा, अप्यासन् मृत्युगोचराः ॥१३७॥ ततः परं परे केऽपि, शिवं केऽपि दिवं पुनः । सङ्ख्यातीता महीनाथाः, शिश्रियुः कालधर्मतः ॥१३८॥ जितशत्रुः शिवं प्राप, सुमित्रस्त्रिदिवं तथा । तन्ममापि गृहे कालान्नाऽवशिष्टोऽस्ति पूर्वजः ॥१३९।। यज्जानीहि द्विजोत्तंस !, मङ्गलौकोऽस्ति न क्वचित् । सर्वसाधारणं मृत्यु, सहस्व स्वाङ्गजन्मनः ॥१४०॥ न मन्त्रा मणयो नापि, नौषधानि न बुद्धयः । न शस्त्राणि न शौर्यं च, कृतान्ते प्रभवन्त्यहो ! ॥१४१।। न महाब्धौ न पाताले, न वा गीर्वाणवेश्मनि । न कान्तारे न विवरे, छाद्यतेऽस्मात् कृतान्ततः ॥१४२॥