SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ स्वपुत्रमृत्युमिषाद् द्विजन्मना सगरप्रतिबोधनम् ३७३ परासुश्चैष नो जीवयितुं शक्यः कथञ्चन । तदुपायेन केनापि, बोध्योऽयं जडधीर्द्विजः ॥१२२॥ इत्यालोच्य तमाहुस्ते, 'विपन्नो यत्र कोऽपि न । रक्षामानय तस्माद्भोः !, कुतश्चिन्मङ्गलौकसः ॥१२३॥ यथा ते नन्दनं विप्र !, गतप्राणमपि क्षणात् । प्राणयामश्चिकित्सा हि, न सिध्येद्भेषजं विना' ॥१२४॥ नृपादेशादथ द्वाःस्था, विनीतायां समन्ततः । अन्यत्रापि च पप्रच्छुर्मङ्गलौकस्तथाविधम् ॥१२५।। हस्यमाना जनैस्तादृगलब्ध्वा मन्दिरं च ते । प्रत्यागत्य नृपं क्लृप्ताञ्जलयोऽथ व्यजिज्ञपन् ॥१२६॥ देव ! प्रतिगृहं लोकः, सङ्ख्यातीतान् मृति गतान् । ब्रवीति विद्यते तस्मान्न मङ्गलगृहं क्वचित् ।।१२७|| जजल्पाऽथ नृपो विप्रं, 'रक्षा मङ्गलसद्मनः । त्वत्पुत्रजीवनायोच्चैर्जायुराख्यायि मान्त्रिकैः ॥१२८॥ मङ्गलौकस्तु नास्त्येव, यतोऽस्यां भरतावनौ । समस्तेष्वपि गेहेषु, गेहमस्माकमुत्तमम् ॥१२९॥ अस्मिन् कुलकराः सप्त, क्लृप्तहा-मादिनीतयः । समजायन्त विमलवाहनाद्याः पुरा किल ॥१३०॥ ते च सर्वेऽपि कालेन, कालेन कवलीकृताः । ततश्चाऽभून्मरुदेवाकुक्षिभूर्नाभिनन्दनः ॥१३१।। १. कृतहाकार-माकारादिनीतयः । २. समयेन । ३. यमदेवेन ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy