________________
३७२
श्रीअजितप्रभुचरितम् सर्गः-६ इति सञ्चिन्त्य पृथ्वीश !, त्वामस्म्येष उपस्थितः । प्रसीद जीवय प्राणप्रियं पुत्रममुं मम' ॥११२॥ अथाऽऽदिष्टैनरेन्द्रेण, नरेन्द्रमन्त्रकौशलम् । प्रयुक्तं तत्र बहुधाऽभूदृथोषरवृष्टिवत् ॥११३।। ततो जाङ्गलिकाः खिन्ना, जगदुर्जगतीपतिम् । 'देव ! व्यापन्न एवायं, येतित्वा खलु तद्वृथा' ॥११४॥ चक्री विप्रमुवाचाऽथ, 'त्वत्पुत्रो मान्त्रिकोत्तमैः । अमीभिरपि नाऽजीवि, यदि तत् किं विधीयते ?' ॥११५॥ श्रुत्वा तद्दुःश्रवं भूपवचो विप्रः सगद्गदम् । जगाद 'पुण्यहीनानामवधिर्वरिवर्म्यहम् ॥११६॥ यत्त्वं समस्तभूनाथो, दैन्यहा दीनदेहिनाम् । शरण्यः शरणेच्छूनां, सुररत्नसमोऽथिनाम् ॥११७|| आश्रितोऽपि मया प्रोद्यद्गुर्वाशेन न रक्षसि । गृह्यमाणं कृतान्तेन, स्वामिन्नन्दनमेककम् ॥११८|| युग्मम् ॥ प्रसीद पुत्रशोकाब्धौ, मज्जन्तं मां समुद्धर । त्वमप्युपेक्षसे चेत्तद्, हा हतोऽस्मि हतोऽस्मि [हा]' ॥११९॥ इति श्रुतवचाश्चक्री, तद् दुःखेनाऽतिदुःखितः । भूयोऽपि विषवैद्यानामाननानि [नि]रैक्षत ॥१२०।। अथ तेऽचिन्तयन् दीनं, विविधं जल्पताऽमुना । द्विजन्मनाऽवनीनाथो, विदधे कुण्ठितोत्तरः ॥१२१॥
१. जाङ्गलिकैः । २. यतित्वा खलु-यतनीयं न इत्यर्थः, निषेधे० (सि.है. ५।४।४४।) इति सूत्रेणाऽयं प्रयोगः । ३. दैन्यनाशकः ।