SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ स्वपुत्रमृत्युमिषाद् द्विजन्मना सगरप्रतिबोधनम् अवन्तिदेशेऽश्वभद्रनामग्रामकृतस्थितिः । अग्निहोत्ररतोऽस्म्येष, बीडवो भरताधिप ! ॥ १०२ ॥ पुत्रं प्राणप्रियं पत्न्याः, पार्श्वे मुक्त्वाऽन्यदा मुदा । विशेषविद्याऽवाप्त्यर्थं, ग्रामान्तरमयासिषम् ॥१०३॥ तत्राऽधीयानमन्येद्युर्भेजे मामरतिर्भृशम् । अईनमित्तेन तेनाऽतिक्षुभ्यन् स्वं ग्राममागमम् ॥१०४॥ सूचिताऽमङ्गलोऽनेकैर्दुर्निमित्तैर्गृहं गतः । प्रियां हा पुत्र ! हा पुत्रेत्याक्रन्दन्तीं निरैक्षिषि ॥१०५॥ मृत्युं पुत्रस्य निश्चित्य, मूच्छितोऽथ परासुवत् । पतितः पृथिवीपीठे, चिराच्चैतन्यमाप्नुवम् ॥१०६॥ प्रलपन्नथ गेहान्तः, सर्पदष्टमिमं सुतम् । वीक्ष्योद्वेगं चिरं धृत्वा, हृदयेन व्यभावयम् ॥१०७॥ " सर्वार्थघातिनं शोकं विमुच्य स्वाङ्गजन्मनः । जीवनाय तनोम्येष, उपायं लघु कञ्चन ॥ १०८॥ , उपायः कोऽस्ति हुं ज्ञातं षट्खण्डभरताधिपः । किङ्करीकृतगीर्वाण-विद्याधर-नरोच्चयः ॥१०९॥ समस्ति सगरश्चक्री, दीनानाथैकबान्धवः । तमाश्रयामि विपदामसाधारणमौषधम् ॥ ११० ॥ युग्मम् || जीवयित्वा स मे पुत्रं, दुःखस्यान्तं विधास्यति । आश्रितस्य हि कल्पद्रु, कुतः स्यादातपव्यथा ? ॥१११॥ १. ब्राह्मण: । २. अपशकुनेन । ३७१
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy