SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभुचरितम् सर्गः ६ ३७० स द्विजो वेत्रिणा सार्धं, संसदं चक्रवर्त्तिनः । प्रविवेश चक्रिणाऽपीत्यपृच्छ्यत कृपालुना ॥ ९२॥ युग्मम् || 'वस्त्र - काञ्चन- रत्नादि किञ्चित् ते केनचिद्धतम् ? | न्यासापलापात् केनापि, पापिना पीडितोऽसि वा ? ॥९३॥ ग्रामारक्षादिना केनाऽप्यर्दितोऽस्यथवा वृथा ? | केनचिद्वा पराभूतो, दारोपप्लवकारिणा ? || ९४ || केनाऽप्यरिणा [वा] दूनो ?, व्याधिना बाधितोऽसि वा ? नैः स्वेनोपद्रुतः किं वा ?, यद्वाऽन्यद् दुःखकृद्वद' ॥९५॥ ततः स ब्राह्मणोऽश्रान्तमलीका श्रुप्लुताम्बकः । विमुञ्चन् दीर्घनिःश्वासान्नृपमूचे कृताञ्जलिः ॥९६॥ 'राजन्वत्यां त्वया चक्रिन्नमुष्यां भरतावनौ । कृष्णाहिवत् परद्रव्यं, जना नै [व] स्पृशन्त्यपि ॥ ९७|| कश्चिन्नाऽपह्नुते न्यासं गुरुं स्वमिव सन्मतिः । ग्रामारक्षादयः स्वीयाऽपत्यवत् पान्ति च प्रजाः ॥९८॥ पराङ्गना मातृ-स्वसृ-तनयोपमयाऽखिलः । त्वद्राज्ये मनुते लोको, धत्तेऽरित्वं च कोऽपि न ॥९९॥ भीतास्त्वत्तोऽरय इव, रुजोऽपि प्रलयं गताः । दारिद्र्यं तव दानेन, नाशितं भुवनादपि ॥१००॥ न कश्चिद् दुःखितो लोके, त्वन्महिम्ना महीपते ! । वर्जयित्वा तु मामेकममुं दुर्दैवदूषितम् ॥१०१॥ १. दारिद्र्येण ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy