________________
श्री अजितप्रभुचरितम् सर्गः ६
३७०
स द्विजो वेत्रिणा सार्धं, संसदं चक्रवर्त्तिनः । प्रविवेश चक्रिणाऽपीत्यपृच्छ्यत कृपालुना ॥ ९२॥ युग्मम् || 'वस्त्र - काञ्चन- रत्नादि किञ्चित् ते केनचिद्धतम् ? | न्यासापलापात् केनापि, पापिना पीडितोऽसि वा ? ॥९३॥ ग्रामारक्षादिना केनाऽप्यर्दितोऽस्यथवा वृथा ? | केनचिद्वा पराभूतो, दारोपप्लवकारिणा ? || ९४ || केनाऽप्यरिणा [वा] दूनो ?, व्याधिना बाधितोऽसि वा ? नैः स्वेनोपद्रुतः किं वा ?, यद्वाऽन्यद् दुःखकृद्वद' ॥९५॥ ततः स ब्राह्मणोऽश्रान्तमलीका श्रुप्लुताम्बकः । विमुञ्चन् दीर्घनिःश्वासान्नृपमूचे कृताञ्जलिः ॥९६॥
'राजन्वत्यां त्वया चक्रिन्नमुष्यां भरतावनौ । कृष्णाहिवत् परद्रव्यं, जना नै [व] स्पृशन्त्यपि ॥ ९७||
कश्चिन्नाऽपह्नुते न्यासं गुरुं स्वमिव सन्मतिः । ग्रामारक्षादयः स्वीयाऽपत्यवत् पान्ति च प्रजाः ॥९८॥
पराङ्गना मातृ-स्वसृ-तनयोपमयाऽखिलः । त्वद्राज्ये मनुते लोको, धत्तेऽरित्वं च कोऽपि न ॥९९॥
भीतास्त्वत्तोऽरय इव, रुजोऽपि प्रलयं गताः । दारिद्र्यं तव दानेन, नाशितं भुवनादपि ॥१००॥
न कश्चिद् दुःखितो लोके, त्वन्महिम्ना महीपते ! । वर्जयित्वा तु मामेकममुं दुर्दैवदूषितम् ॥१०१॥ १. दारिद्र्येण ।