SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३६९ स्वपुत्रमृत्युमिषाद् द्विजन्मना सगरप्रतिबोधनम् एवमाश्वास्य तानध्वस्थितं किञ्चिदनाथकम् । आदाय मृतकं सोऽगाद्विनीतां नगरीं द्विजः ॥८१॥ आस्थानमण्डपासीने, चक्रिण्यथ स वाडवः । द्वारे स्थित्वोर्ध्वदोर्दण्डः, पूत्कृति तेनिवानिति ॥८२॥ हताऽशेषरिपुव्यूह !, प्रीणिताऽशेषमार्गण ! । नमितानेकगीर्वाण !, नीतिगङ्गाहिमालय ! ॥८३॥ भवता रक्षितेऽमुष्मिन्, भारते सकले प्रभो ! । हहा ! निर्नायक इव, मुषितो मुषितोऽस्म्यहम् ॥८४।। युग्मम् ।। निशम्याऽश्रुतपूर्वं तद्, द्वारपालं नृपो जगौ । 'जानीहि किं रवीत्येष, यदि वाऽत्र प्रवेशय' ॥८५॥ अथैत्य द्वारपालेनाऽनुयुक्तोऽयं मुहुर्मुहुः । तथैव पूत्कृति बाढमशृण्वान इव व्यधात् ॥८६।। द्वारपालः पुनः प्रोचे, 'किमकर्णोऽस्यहो द्विज ! ? । यत् परित्यज्य पूत्कारं, न शृणोसि हितां गिरम् ॥८७।। धन्योऽसि त्वं गृहे तेऽद्योद्गतः कल्पतरुधूवम् । प्रसूता कामधेनुर्वा, चिन्ताश्मा वा [स]मागतः ॥८८॥ यत् स्वयं सगरश्चक्री, भवदुःखेन दुःखितः । कृपाम्बुधिर्मदास्येन, हेतुं दुःखस्य पृच्छति ॥८९॥ पुरतो मम तद् ब्रूहि, स्वकीयं दुःखकारणम् । यदि वा स्वयमागत्य, भाषस्व नृपतेः पुरः' ॥९०॥ श्रुत्वेति बाष्पसंरुद्धलोचनः प्रस्खलत्पदः । विलुलन्मूर्द्धजो म्लानाननः क्षामकपोलकः ॥११॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy