________________
३६८
क्रियते ज्वलने वारिपूरे वा तत् प्रवेशनम् । उदरे वा क्षुरीक्षेपः, कण्ठे वा खड्गवाहनम् ॥७१॥ उद्बध्यते तरौ वाऽऽत्मा, यदि वा पत्यते भृगोः । न तु भूमीपतेः स्वास्यं, मलिनं खलु दर्श्यते ॥७२॥ किञ्च मृत्युं स्वपुत्राणां श्रुत्वा चेच्चक्रवर्त्यपि । प्राणानुज्झति दुःखार्त्तो, मृत्युरेव तदाऽपि नः ॥७३॥ इत्यनल्पविकल्पौघव्याकुलान् मृतिमिच्छतः । तानवादीत् तदैवैतं, एकः काषायभृद् द्विजः ॥७४॥। 'यदि षष्टिः सहस्रा भो !, मृता वः स्वामिनोऽङ्गजा: । तद्विषादनिषादः किं प्रविवेश हृदालयम् ? ॥७५॥
श्री अजितप्रभुचरितम् सर्ग:-६
न ह्येतन्नूतनं किञ्चित्, प्रकृत्या भङ्गुरे भवे । यत् संयोगो वियोगान्तो, मरणान्ता तथा जनिः ॥७६॥ उपायानां खलु शतैरपि नो रुध्यते मृतिः ।
रुध्यते यदि तद्याताः शक्र-चक्र्यादयः क्व ते ॥७७॥
,
युगपन्मरणेऽप्येषां न हि कश्चन विस्मयः । कर्मणां हि परिणामान्नास्ति तद्यन्न जायते ||७८ ||
ध्रुव भाविनि मृत्यावुद्भूते [भो] धीरबुद्धयः ! | शुचं त्यजत नो प्रत्यावर्त्तन्ते हि मृताः शुचा ॥७९॥ चक्रिणोऽपि पुरो वक्ष्याम्येत [द्] युक्तं यथा तथा । न स शोकाम्बुधौ मङ्क्ता, त्यजताऽऽकुलतां ततः' ||८०||
१. वहनमेव वाहनम् । प्रज्ञादित्वात् सि.है. - ७- २ - १६५ - सूत्रेण स्वार्थे ऽण्प्रत्ययः इति शब्दप्रभेदे २।२ । २. आगतः । ३. खेदचण्डालेन ।