SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अयोध्यां प्रति प्रस्थानम् ३६७ विच्छाये निखिले सैन्ये, कार्यमूढेषु मन्त्रिषु । सुबुद्धिः सचिवो धैर्यमालम्ब्य प्रोचिवानथ ॥६०॥ 'भो भो ! अरण्यरुदितेनैतेनाऽलं यतो विधिः । परिस्फुरन् सुदुर्वारः, शक्राद्यैरपि सर्वथा ॥६१॥ नैते चक्रिसुताः शोच्या, नश्वराङ्गव्ययेन यैः । तीर्थं सुरक्षितं कृत्वा, स्थेयं सुकृतमजितम् ॥६२॥ अथाऽस्माकं रयागच्छज्जाह्नवीजलसङ्कले । सप्रत्यूहे प्रदेशेऽत्र, स्थातुं नो युज्यते क्षणम् ॥६३॥ तदद्यैवाऽमुतो देशात्, प्रयाणं प्रवितन्यताम् । गत्वा च स्वामिने हस्ति-तुरगाद्यं समर्प्यताम् ॥६४।। ततोऽस्मासु प्रभुः किञ्चिद्यत् करोति करोतु तत् । न नः कर्तुं ततां चिन्तां, साम्प्रतं खलु साम्प्रतम्' ॥६५॥ इत्यमात्यवचो युक्तं, मन्वाना निखिला अपि । सामन्ताद्या गतोत्साहाः, प्रयाणकमकल्पयन् ॥६६॥ म्लानानना अयोध्यायाः, प्राप्योपान्तभुवं च ते । निषद्यैकत्र सम्भूयाऽमन्त्रयन्तेतरेतरम् ॥६७।। भक्ताः शक्ताः पुरा दृष्टसारा इति महीभुजा । ससम्मानं समादिष्टा, वयं सार्द्ध तनूरुहैः ॥६८॥ गत्वा च तान् विनाऽद्याऽऽस्यं, दर्शनीयं कथं प्रभोः ? । वक्तव्या वा कथं पुत्रवार्तेयं सहसेदृशी ? ॥६९॥ तदस्माकं कुलीनानां, तत्र गन्तुं न युज्यते । [युज्यते] त्वनुगन्तुं तान्, स्वप्रभून् मृत्युसाधनात् ॥७०॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy