________________
३६६
श्रीअजितप्रभुचरितम् सर्गः-६
अन्तःपुरस्त्रियोऽप्येवमुद्दिश्य स्वस्ववल्लभान् । व्यलपन् बाष्पधाराभिः, पूरयन्त्यः सुरापगाम् ॥५०॥ हा जीवितेश ! हा सोमद्युतिद ! प्रगुणोच्चय ! । हा सौम्यैकसदन ! [क्व], क्वाऽसि हा मदनद्युते ! ॥५१।। देहि प्रतिवचः प्रेयन् !, किं न जानास्यमुं जनम् । प्राणप्रियं महादुःखाकूपारावर्त्तपातिनम् ॥५२॥ पक्त्रिमैर्वारुफलवत्, स्फुट रे हृदय ! द्विधा । रे रे जीवित ! निर्गच्छाऽनुगच्छाऽधिपतिं स्वकम् ॥५३॥ दैव ! प्रेयोवियोगेऽस्मान्, द्रुतं संहर संहर । धर्तुं क्षणमपि प्राणान्, शक्नुमोऽतः परं न हि ॥५४|| दावाग्नि ! त्वमिह प्रादुर्भूय भूयः शिखाकुलः । प्रियं नोऽनुयियासूनां, कुरु साहाय्यकं जवात् ॥५५॥ पत वाऽस्माकमुपरि, निर्विलम्बं तडिल्लते ! । सरिद्वरेऽथवोत्प्लुत्य, जलैनः प्लावयोद्धतैः ॥५६।। एवं रुदत्यो विविधं, सुदत्यस्ता उरःस्थलम् । आजनिरे दृढं मुक्तास्रजं चाऽत्रोटयन् रयात् ॥५७।। इतरानप्यलङ्कारान्, व्यक्षिपस्ताः समन्ततः । बाष्पौघार्दी भुवं चाऽशोषयनिःश्वासवायुभिः ॥५८॥ शोकाब्धिरेवमुद्वेलः, प्रसरन् रुदितस्वरैः । व्यानशे सर्वतोऽप्याशु, पक्षि-द्रुम-मृगानपि ॥५९॥ १. पक्वचिर्भटकफलवत् ।