SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३६४ श्री अजितप्रभुचरितम् सर्गः ६ पातालकल्पा योजनसहस्रद्वयसी क्षणात् । गाङ्गैर्जलभरैर्विष्वक्, परिखेयमपूर्यत ॥३०॥ प्राग्जातैर्भूमिविवरैः, सलिलौघोऽथ भोगिनाम् । भवनेषु विवेशोच्चैर्जनयन् क्षोभमुल्वणम् ॥३१॥ ततस्त्राससमाकीर्णाः, पूत्कारमुखराननाः । नागनाथं समभ्येत्याऽभ्यधुर्नागकुमारकाः ॥३२॥ नाथ ! नाथ ! कुतोऽप्येष, जलराशिः प्रसृत्वरः । पूरयत्यहिसद्मानि, दुर्निवारः समुद्रवत् ॥३३॥ नागा इतस्ततो नष्टा, दुष्टारिष्टोल्लसद्देरा: । एताश्च जलपूरेण, प्लाव्यन्ते नागयोषितः ॥३४॥ ततस्त्रायस्व त्रायस्व, नागान् भयविसंस्थुलान् । समर्थोऽपि कथं नामाऽसमर्थ इव तिष्ठसि ? ॥३५॥ नागेश्वरोऽव[द]त् क्रोधाद् भ्रकुटीभीषणालिकः । 'मन्ये दुश्चेष्टितमिदं, सगरस्य तनूभुवाम् ॥३६॥ रजोभरप्रपातेन, पूर्वं यद्विहितागसः । मया न शिक्षिता एते, तदेवं दुर्मदा व्यधुः ||३७|| सामाऽयोग्यानिमांस्तातलक्ष्मीप्राग्भारगर्वितान् । द्राग्दण्डविषयीकुर्वे, महामन्तुविधायिनः' ॥३८॥ इत्युक्त्वा त्वरितं दृष्टिविषकुण्डलिभिः समम् । निरगादौर्ववद्वार्धेः, पाताला[ज्ज्व ]लनप्रभः ||३९|| १. योजनसहस्त्रप्रमाणा । २. भयाः । ३. वडवाग्निवत् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy