________________
मगरपुत्रैरष्टापदरक्षणाय परिखाकरणम्
३६३
दुर्मदा दण्डरत्नाप्त्या, श्रीमदाद् गतबुद्धयः । न पश्यामि दुराचारा !, उदकं वः शुभावहम्' ॥१९॥ जगुरूचेऽथ 'नागेन्द्र !, नास्माभिरयमुद्यमः । उपद्रवाय युष्माकं, सदनानां विनिर्ममे ॥२०॥ किन्त्वष्टापदशृङ्गस्थं, चैत्यं पूर्वजनिर्मितम् । भाविदुर्गतलोकेभ्यस्त्रातुं खेयमखान्यदः ॥२१॥ वेश्मानां वः सुदूरत्वाच्छशङ्के न ह्युपद्रवः । अर्हद्भक्तिपराणां तद्दोषलेशोऽपि नास्ति नः ॥२२॥ अपराद्धं दण्डशक्त्या, नागनाथ ! सहस्व तत् । कोपं संवृणु नेदृक्षं, विधास्यामः पुनर्वयम्' ॥२३॥ जह्वनेत्यनुनीतोऽथ, नागेन्द्रः शममाश्रितः । ईदृक् कृढ्वं पुनर्मा स्मेत्युक्त्वाऽगात् स्वपदं द्रुतम् ॥२४।। ऊचेऽनुजांस्ततो जनुरष्टापदगिरेरिदम् । कृतं पातालगम्भीरं, खेयं नो भाति निर्जलम् ॥२५॥ रिक्तस्य पूरणं कालाद्, रजसाऽप्यस्य सम्भवेत् । तद् गाङ्गमोघमानीयाऽम्बुनेदं पूर्यते जवात् ।।२६।। सानन्दं सोदरैर्जह्वर्जल्पितः साधु साध्विति । [र]या[द] दारयद्दण्डरत्नेन स्वर्नदीतटीम् ॥२७।। रयनिर्घोषबधिरीकृतदिद्विरदश्रवाः । स्फुरदभ्रंलिहोल्लोलपटलन्यकृताचला ॥२८॥ मत्स्य-कच्छप-पाठीनमुख्यजन्तुकुलाकुला । दण्डक्लृप्ताऽध्वना प्राप, गङ्गा तां खातिकामथ ॥२९॥ युग्मम् ॥