SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३६२ श्रीअजितप्रभुचरितम् सर्गः-६ दण्डस्याऽमेयशक्तित्वाच्चक्रिपुत्रैर्महाबलैः । योजनानां सहस्रं भूपीठे खाते झटित्यपि ॥९॥ प्रादुर्बभूवुर्नागानां, भवनानि रजोभरः । विशंश्च तेषु निखिलं, नागलोकमचुक्षुभत् ॥१०॥ युग्मम् ।। खातक्ष्माविवरैरर्कः, स्वकरौघं रसातले । ततान 'ना[ग]लल[ना] तनु'स्पर्शोत्कधीरिव ।।११।। हहा ! प्रादुरभूत् कोऽयमुत्पात इति वादिनः । सातङ्काः स्वस्वशस्त्राणि, बिभ्राणाः पाणिपूरगाः ॥१२।। कोपकम्प्राधरा बाढमाकुलीभूतमानसाः । सत्वरं शरणं भेजुः, स्वनाथं ज्वलनप्रभम् ॥१३॥ युग्मम् ॥ असमञ्जसमालोक्याऽकस्मात्तत् ज्वलनप्रभः । प्रयुक्तावधिविज्ञातसागरिभ्योऽकुपत्तराम् ॥१४॥ कम्पमानतनुः कोपार्दर्शः प्रलयाऽर्कवत् । झटित्यागत्य सगरात्मजानेवं जजल्प सः ॥१५॥ 'अनन्तजन्तुनिर्घातकारणं भूमिदारणम् । महापापमिदं मत्ताः, कथं कुरुथ रे जडाः ? ॥१६।। भवद्भिर्भवनेशानां, भवनाः शाश्वता अपि । दण्डप्रहारतो रे रे, किं व्यधीयन्त जर्जराः ? ॥१७॥ सगरस्य तनूजानां, भ्रातृव्याणां जिनेशितुः । युष्माकमुत्तमानां किं, युज्यते कर्तुमीदृशम् ? ॥१८॥ १. 'नाल लातुनु' इति पु.प्रे. । २. सगरपुत्रेभ्यः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy