________________
षष्ठः सर्गः
अथ तच्चैत्यमात्मीयपूर्वजानां यशश्चयम् । धृताङ्गमिव निध्याय, तनुजान् जह्नुरूचिवान् ॥१॥
'अहो ! भरतवत्क्वापीदृशचैत्यविधानतः । कुर्मः कुन्दोज्ज्वलां कीर्ति, क्षितौ वयमपि स्थिराम् ॥२॥ स्थापिते भरतेशेन, तीर्थेऽस्मिन्नेव वाऽधुना । ध्रुवपुण्याप्तये किञ्चित्, कृत्यशेषं विदध्महे ॥३॥
पर्वतोऽयं रत्नखानिः प्रवरौषधिसङ्कलः । नानारत्नम[य] श्रीमदर्हदेहविभूषितः ॥४॥ प्रवृत्ते दुःषमाकाले, हीनसत्त्वैर्धनार्थिभिः । भविष्यत्पार्थिवैर्लोपं, नेष्यते पापवृत्तिभिः ॥५॥ युग्मम् ||
"
तदमुष्यैव रक्षायै, यत्नः कश्चिद्विधीयते । त्राणं प्रत्नस्य तीर्थस्याऽधिकं यन्नूत्ननिर्मितेः ॥६॥
इत्युक्तवानवरजैरनुज्ञातः करेऽकरोत् । दण्डं जह्नुः सहस्रांशुरिव तेजस्विनां वरः ॥७॥ कनीयोभिः सहाऽह्लाय, तं शैलं परितोऽपि सः । धरित्रीं दण्डरत्नेन, परिखार्थं व्यदारयत् ॥८॥