________________
३६०
श्रीअजितप्रभुचरितम् सर्गः-५ एवं स्तुत्वा प्रचुरपुलकोद्भेदनिर्दिग्धदेहास्तेऽर्हद्गृहादथ बहिरुपागत्य कृत्यज्ञधुर्याः । नेमुः स्तूपान् भरतनृपतेः सोदराणामुदारानन्दाः स्वीयं नरजनुरमन्यन्त धन्यं च तज्ज्ञाः ।।२३१।। [मन्दाक्रान्तावृत्तम् ]
इति श्रीपद्मप्रभाचार्यचरणराजीवचञ्चरीकश्रीदेवानन्दसूरिविरचिते श्रीअजितप्रभुचरिते आनन्दाङ्के महाकाव्ये स्त्रीदुश्चरित्रविरक्ताऽशोक भद्रऋषिचरित्रगर्भितसगरनन्दनस्वेच्छाविहारश्रीअष्टापदतीर्थवन्दनवर्णनो
नाम पञ्चमः सर्गः ॥ ॥ ग्रं. २३७, अ.४, आदितः ३६६१ ॥