SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५७ अष्टापददर्शनम् तदेकयोजनायाममर्द्धयोजनविस्तृतम् । त्रिगव्यूतोन्नतं स्फारचतुरं व्यराजत ॥२१३॥ चतुर्विंशतिसङ्ख्यानां, वृषभाद्यर्हतामिह । रत्नमय्यो व्यधीयन्त, प्रतिमाः स्फारकान्तयः ॥२१४।। स्वस्वप्रमाणसंस्थानवर्णलाञ्छनसुन्दराः । ता अर्हत्प्रतिमा लभ्या, अचितुं भाग्यशालिभिः ॥२१५।। स्वबन्धूनां कृताः स्तूपा, मूर्तयश्चाद्यचक्रिणा । इह शैले विलोक्यन्ते, केन पुण्योदयं विना ? ॥२१६।। भरतेशः पदान्यष्टौ, योजनान्तरितानि यत् । परितोऽमुं गिरिं चक्रेऽष्टापदोऽयं तदुच्यते' ॥२१७॥ श्रुत्वेति सगरस्यात्मजन्मानो हर्षशालिनः । तस्य पूर्वजशैलस्य, शृङ्गमारुरुहुर्दुतम् ॥२१८॥ तत्र सिंहनिषद्यायां, चैत्ये ते विधिना बुधाः । प्रविश्याऽऽलोकमात्रेऽपि, वृषभाद्यर्हतोऽनमन् ॥२१९॥ ततश्च परया भक्त्या, स्नपयित्वा यथाविधि । समभ्यर्च्य च शुद्धान्तःकरणा इति तुष्टुवुः ॥२२०॥ सानन्दमुद्यत्पुलकैः सुपर्वराजैः समभ्यर्चितपादपद्मान् । जिनांश्चतुर्विंशतिमस्तदोषान्, वन्दामहेऽष्टापदशैलशृङ्गे ॥२२१॥ [उपजातिवृत्तम्] नाभेयमुख्यास्त्रिदशा(स्त्रिशला)ङ्गजन्माऽ न्तिमा अमात्मातिशयश्रियाऽऽद्याः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy