SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभुचरितम् सर्ग: ५ ३५६ भुञ्जाना विविधान् भोगान्, ददाना दानमद्भुतम् । अर्हदर्चा अर्चयन्तः, स्थापयन्तः स्थिरं यशः ॥ २०३॥ अन्यदा स्फाटिकग्रावमयं पर्वतसत्तमम् । तेऽष्टापदाभिधं प्रापुः शृङ्गरङ्गज्जिनालयम् ॥२०४॥ युग्मम् || सान्द्रद्रुमावलीरम्यं, विलासार्थं स्फुरत्सुरम् । प्राज्यनिर्झरझात्कारध्वनिपूरितदिङ्मुखम् ॥२०५॥ चैत्यप्रणमनोत्कण्ठां, बिभ्राणैः परमां हृदि । सङ्कीर्णाध्वानममर-चारणश्रमणादिभिः ॥ २०६ ॥ तमष्टयोजनोत्तुङ्गं, चतुर्योजनविस्तृतम् । वीक्ष्य शैलं सुबुद्ध्याख्यं, ते पप्रच्छुः स्वमन्त्रिणम् ॥२०७॥ त्रिभिर्विशेषकम् ॥ दृष्टमात्रोऽपि क्षुत्तृष्णापहारी को त्वसौ गिरिः ? | नेत्रामृताञ्जनं चेदं, केन चैत्यं विनिर्ममे ? ॥२०८॥ उवाच सचिवोऽमुष्मिन्, भारते वृषभः प्रभुः । आद्यस्तीर्थकृतामासीदोङ्कारोऽभिजनस्य वः ॥ २०९ ॥ शतं तस्याऽङ्गजा आसंस्तेषां तु भरतोऽग्रजः । अयं क्रीडागिरिस्तस्य चक्रिणोऽष्टापदाभिधः || २१० || शैलेऽस्मिन्ननगाराणामयुतेन समं प्रभुः । ऋषभो निर्वृतिं लेभे, चतुर्दशतपः परः ॥२११॥ ततो वर्द्धकिरत्नेन, निदेशाच्चक्रवर्त्तिनः । चक्रे सिंहनिषद्याख्यं, चैत्यं रत्नोपलैरिह ॥२१२॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy