________________
वरुणवर्मणः कथा
तत्ते वरुणजीवस्य, प्राग्जन्मप्रेम मां प्रति । इदमुल्लसति क्ष्मापतनूजेति विनिश्चिनु' ॥१९३॥ श्रुत्वेत्यशोकभद्रोऽपि, जातजातिस्मृतिः क्षणात् । प्राग्जन्मकान्तादुर्वृत्तं, तद्विज्ञायेति दध्यिवान् ॥१९४॥ तीव्रं विषं वरं भुक्तं, प्रविष्टं पावके वरम् । वरं प्रपतनं कूपे, न तु स्नेहोऽङ्गगनाजने ॥१९५॥ विषादिसेवया जन्मन्येकत्रैव मृतिर्भवेत् । स्त्रीसेवनादनन्तं तु दुःखं वाचामगोचरम् ॥ १९६॥ इति ध्यात्वा भवोद्विग्नस्तस्य पल्लीश्वरात्मनः । गुरोः पार्श्वे व्रतं दुःखभीतोऽसौ प्रत्यपद्यत ॥१९७॥ सोऽहं स्वगुरुणा सार्धं, विहरन् सगरात्मजाः ! । अत्राऽऽगमं गुरुस्त्वाप, सम्प्रत्येव परं पदम् ॥१९८॥ तदयं व्रतहेतुर्मे, युष्माभिरपि संसृतिम् । पश्यद्भिर्भीषणां धर्मे, यतितव्यं शुभाशयाः ! ॥१९९॥
समाकर्ण्येति मुदितास्ते जह्वप्रमुखा मुनिम् । भक्त्या परमया नत्वोत्तस्थुः स्थैर्यैकपर्वताः ॥ २००॥
पुनर्दत्तप्रयाणाश्च विविधाश्चर्यपूरिताम् । मेदिनीं स्वेच्छया चेरुरर्रिकौशिकहेलयः ॥ २०१ ॥
यानाधिरूढैर्भूपालैः, सवयोभिः पदे पदे । अतोष्यन्त कुमारास्ते, नानानर्मकथादिभिः ॥ २०२॥
१. रिपुकौशिकसूर्याः ।
३५५