________________
वरुणवर्मणः कथा
अवादीदथ तां पापां, वरुणः स्वजनास्तव । अभ्यर्णास्तत्र तद् याहि, ततः सा प्रत्यवोचत ॥१७३॥
'इहामुत्र च मे त्वत्तः, परः को ज्वलनं विना । निजोऽस्ति प्रणयिन् ! येन, वक्ष्येवं परुषं वचः ॥१७४॥ यदि त्वमपि कौलीनं, दत्त्वा मां मुञ्चसि प्रिय ! | तदा निर्गमयिष्यामि, त्वत्पुरो निजजीवितम् ' ॥१७५॥ इत्युक्त्वा सा तरौ क्वापि, स्वोत्तरीयेण मायिनी । निबध्य कण्टमात्मानं, मोक्तुं प्रारभत द्रुतम् ॥१७६॥ तां निवार्य भृशोद्विग्नमानसो वरुणो हृदि । दध्यावकृत्यखानीः स्त्रीर्धिक् प्रपञ्चद्रुमेदिनीः ॥१७७৷৷ ततः स्वयमयं गत्वा, तां ब[न्धू]नां समर्प्य च । प्रबुद्धो गुरुपादान्ते, व्रतं धृत्वा दिवं ययौ ॥१७८॥ इतश्चाऽङ्गाख्यदेशेऽस्ति, पुरं रत्नपुराभिधम् । राट् तत्राऽशोकचन्द्रोऽस्य, प्रियङ्गुलतिका प्रिया ॥ १७९ ।। तत्कुक्षौ वरुणो देवभवाच्च्युत्वाऽवतीर्णवान् । जातश्चाऽशोकभद्राख्यस्तनयः स्मरसुन्दरः || १८०|| वर्द्धमानः क्रमादेष, कलासु प्राप्तनैपुणः । सुन्दरीचित्तवातायुवीतंसं यौवनं ययौ ॥१८१ ॥
अन्येद्युः स वसन्तर्तु श्रीवीक्षायै चमूवृतः । उद्यानं प्राप्तवानेकं वाचंयममलोकत ॥ १८२ ॥
१. नारीमनमृगवीतंसम् । २. शोभादर्शनाय ।
३५३