________________
३५२
श्रीअजितप्रभुचरितम् सर्गः-५ सोऽपि पल्लीपतेरेवं, पृच्छतः प्रीतचेतसः । तादृक्स्वदारदौःशील्यगर्भं स्वचरितं जगौ ॥१६३।। पल्लिनाथोऽवदद्भद्र !, दुराचाराऽसकौ त्वया । स्थाप्या स्वसदने नैवाऽनर्थव्यालमहा[लया] ॥१६४|| बाह्यवृत्त्या परं प्रेम, दर्शयत्यङ्गनाजनः । अन्तर्वृत्त्या पुनः प्राणाऽपहृत् किञ्चन चेष्टते ॥१६५।। दुष्टाभिप्रायता स्त्रीणां, दहनं पावकस्य च । विषस्य मरणं चेति, स्वभावो निरुपाधिकः' ॥१६६।। इत्युक्त्वा पल्लिनाथेन, नीतः स्वौकसि सादरम् । सत्कृतः स दिनं प्रेमसंलापैरत्यवाहयत् ॥१६७॥ ततश्चापं करे बिभ्रत्, पल्लीशस्तं प्रियान्वितम् । उत्तार्य भीषणां पल्लीमभाषत हितं वचः ॥१६८॥ 'अथाऽऽसन्नस्तव ग्रामो, वर्त्तते भद्र ! तद् व्रज । दुःशीलायाममुष्यां तु, विश्वसीर्मा कदाचन ॥१६९।। वक्ष्यति प्रेमसान्द्राणि, वचांसि विविधान्यसौ । त्वया तेषां प्रवेशोऽपि, न देयः श्रवणाध्वनि ॥१७०॥ पिशाच्या इव कीनाशहस्तयष्टेरिव त्वया । अस्या विनष्टशीलाया, भेतव्यं सुभटोत्तम ! ॥१७१॥ अशेषनीतिविज्ञस्य, यद्वाऽलं तव शिक्षया' । इत्युक्त्वा मोटितात्मीयचापः स क्वचनाप्यगात् ॥१७२।।