________________
वरुणवर्मणः कथा
साहसैकनिधिस्तं च, हत्वा पल्लीशनन्दनम् ।
तां पापां पाणिनाऽऽदाय, केशेषु ववले बली ॥१५३॥ व्यतीते वर्त्मनोऽथार्द्धेऽन्यस्याः पल्लेरधीश्वरः । वीरकाख्यः शीलवतीं, लिप्सुस्तमरु [ण] द्रयात् ॥ १५४॥ एकोऽप्यनेकान् पल्लीशसुभटान्निर्जिगाय सः । अन्धकारानिव रविर्मृगारातिर्मृगानिव ॥१५५॥ पल्लिनाथोऽभ्यधाद्वीर !, पौरुषं साधु साधु ते । किन्त्विमैर्निहतैः कीटकल्पैः किं कातरैर्नरैः ? ॥१५६॥ यदि वीरव्रतं किञ्चिदस्ति ते सुभटोत्तम ! | भव मे सम्मुखीनस्तद्दोः कण्डूं खण्डयाम्यरम् ॥१५७|| ममाऽथवा रणारम्भस्त्वया सार्द्धं न युज्यते । त्वय्यज्ञातकुले यस्मात्, का कीर्त्तिर्विजितेऽपि हि ? ॥ १५८ ॥
ईषद्विहस्य वरुणस्ततोऽवादीदुदारवाक् । गेहेनर्दिन् ! किमात्मानं, मुहुरेवं विकत्थसे ? ॥१५९॥ वीरव्रतं हि वीराणां, दोर्द्वये न पुनर्गिरि । सामर्थ्यमस्ति चेत्तर्हि, प्रहराऽपसराऽन्यथा ॥ १६०॥ धीरेण वचसा तेन, तं विभाव्य नरोत्तमम् । पल्लीनाथोऽब्रवीद् 'भद्र !, गिरैवाऽहं जितस्त्वया ॥१६१॥ किन्तु ब्रूहि भटोत्तंस !, कोऽसि त्वं ? कुत आगत: ? | अत्रातिविषमे पल्लीदेशे किं ते प्रयोजनम् ? ' ॥१६२॥
३५१