________________
३५०
श्रीअजितप्रभुचरितम् सर्गः-५
बलिना पुनरेकेन, कपिना कपितान्तरात् । आगत्य यूथमधुना, त्याजितोऽस्मि नरोत्तम ! ॥१४३॥ तत् प्रसीद सपत्नं तं, विनिहत्य कपिब्रुवम् । विक्रमैकनिधे ! धीर !, यूथनाथं विधेहि माम् ॥१४४।। वाचयित्वेति तं तूर्णं, पुरस्कृत्याऽऽरुरोह सः । करात्तकण्टकोदग्रलगुडः शिखरं गिरेः ॥१४५।। ततः स प्लवगो वक्त्रमूर्वीकृत्याऽमुचद् द्रुतम् । बूत्कारं पर्वतगुहोच्छलितोग्रप्रतिध्वनिम् ॥१४६।। बूत्कारध्वनिना ते[न], दिक्चक्रे निचिते तदा । सातङ्काः स्वापदा वन्यास्तृणान्यौज्झन्मुखान्तरात् ॥१४७।। अथोर्वीकृतलाङ्गलो, बूत्कारभरिताम्बरः । कुर्वद्भिरुपलासारं, वानराणां शतैर्वृतः ॥१४८॥ बिभ्रत् सकण्टकं दण्डं, करे कोपोच्छ्वसत्तनुः । सद्यः समीये तद्दर्पोन्मत्तः स कपियूथपः ॥१४९|| युग्मम् ॥ अथोपकारिणा शाखामृगेणाऽऽलोकिताननः । वरुणो वैरिणं वेगाद्दण्डेन निजघान तम् ॥१५०॥ दृढेन तेन घातेन, परासौ तत्र यूथपे । वरुणस्य पुरोऽनृत्यत्, पूर्वः कपिपतिर्मुदा ॥१५१।। वरुणोऽथ हरीशं तमापृच्छ्याऽतुच्छविक्रमः । पल्ली तामेव भूयोऽगाद्रात्रौ केनाप्यलक्षितः ॥१५२।।