SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ वरुणवर्मणः कथा मयाऽहो ! चतुरेणापि, मार्गे चिह्नपराऽसकौ । नाऽज्ञायि कस्य वा बुद्धिः, स्फुरेदैवे पराङ्मुखे ॥१३३॥ वीक्षते योजनशतात्, परतोऽप्यामिषं स्थितम् । शकुनो मृतिकाले तु वधपाशं न पश्यति ॥ १३४॥ सदसद्वा यथा येन, पुरा यत्कर्म निर्ममे । सदसद्वा तथा तेन, फलं तस्योपभुज्यते ॥ १३५॥ विधीयतेऽत्र संसारे, कस्य केन शुभाशुभम् । कर्मैव कर्तृ व्यर्थैव, शेषस्य वचनीयता ॥ १३६॥ इति तत्त्वस्मृतिं तस्मिन्, कुर्वाणे तत्र कश्चन । कपीश्वरः समायासीत्, परोपकृतिलालसः ॥ १३७॥ तं तथास्थं स वीक्ष्याऽऽप्तमूर्च्छा द्राग् लब्धचेतनः । गत्वाऽद्रिशिखरं वेगादागा [ दा] दाय मूलिकाम् ॥१३८॥ ऊर्ध्वं खादिरकीलानां चर्बयित्वा च तामसौ । मुमोच तत्प्रभावाच्च, ते सर्वेऽपि विनिर्गताः ॥१३९॥ ततः संरोहिणीनाम्न्यौषध्या कपिपतिर्व्रणान् । संरोह्य भुवि हस्तेनाऽलिखदक्षरमालिकाम् ॥१४०॥ अहं त्वद्ग्रामवास्तव्यः, सिद्धकर्माभिधो भिषक् । मृत्वा कर्मवशाद्भद्र !, जातोऽस्म्येष प्लवङ्गमः ॥ १४१ ॥ त्वद्दर्शनसमुत्पन्नजातिस्मृतिरसज्जयम् । त्वां प्राच्यभवविज्ञातौषधीयुगलतः क्षणात् ॥१४२॥ ३४९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy