________________
३४८
श्रीअजितप्रभुचरितम् सर्गः-५
'त्यज दृग्गोचरं पापे !, न भवस्यन्यथा ध्रुवम्' । साऽप्याह 'शरणं नाथ !, त्वं मे कुरु यथोचितम्' ॥१२३।। तयाऽनुगम्यमानोऽथ, पापया स भटाग्रणीः । रजन्यामेव तां पल्ली, जिहासुरचलद् द्रुतम् ॥१२४।। तां तु पल्लीशानुचरज्ञप्तये पृष्ठतोऽध्वनि । वासोदशा विमुञ्चन्तीमृजुधीर्बुबुधे न सः ॥१२५।। सरिद्भिर्गिरिभिर्वृक्षैविषमं पल्लिवम॑ तत् । यावत् किञ्चिल्ललझेऽसौ, तावदन्तमगान्निशा ॥१२६॥ पृष्ठाऽऽगमिष्यत्पल्लीशभटोच्चयभयादथ । शीलवत्या समं क्वापि, कु) तस्थौ निलीय सः ॥१२७।। पल्लीनाथात्मजो व्याघ्रनामाऽथ सुभटैर्वृतः । वासोदशानुसारेण, तत्र सद्यः समापतत् ॥१२८।। प्राप्तोऽस्मि त्वदभिज्ञानप्रयोगादिह सत्वरम् । इति शीलवती कूटपेटां सोऽवददुच्चकैः ॥१२९।। निघ्नंश्च वरुणं पापाशयया गदितस्तया । महारिपुममुं वत्स !, दुःखमारेण मारय ॥१३०॥ ततोऽयं खादिरैः कीलैः, सुतीक्ष्णाग्रैः भुवा समम् । पञ्चस्वङ्गेषु वरुणं, कीलयित्वा व्यमुञ्चत ॥१३१॥ तामादाय स्वयं व्याघ्रो, जगाम निजमन्दिरम् । वरुणस्तु व्यथावाद्धिमग्नश्चेतस्यचिन्तयत् ॥१३२।।