SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ वरुणवर्मणः कथा ३४७ 'आर्यपुत्रैकघातेन, मार्यमाणः सुखं न मे । विदधाति यथा दुःखमारेणाऽसौ दुराशयः' ॥११३॥ ततः पल्लीपतेराज्ञाकारकैर्यममूर्तिभिः । स्थूणायां स दृढं बद्धः, शरीरोत्कृत्तचर्मणा ॥११४॥ स्वस्थानं तेषु यातेषु, ततः सा स्वैरिणी मुदा । पल्लीशेन समं कामविलासान् भृशमातनोत् ॥११५।। वरुणस्तु तथा पश्यन्, दुर्दैवस्य वशङ्गतः । अन्वभूदधिकं दुःखं, शरीरादपि मानसम् ॥११६।। बीजं भवतरोर्मूलं, वैराणां पदमापदाम् । नार्यो नृणां भवेयुः किं, ननु निर्वृतिकारणम् ? ॥११७।। स्त्रीनिमित्तो मयाऽनर्थः, सर्वोऽयं प्रापि दुधिया । काऽधुना धर्महीनेन, गतिर्लभ्या मृतेन तु ? ॥११८|| एवं चिन्तयतस्तस्य, निस्सीमप्रस्फुरच्छुचः । छिन्नो विधिवशाद्वन्धो, बान्धवैरिव मूषकैः ॥११९॥ रुषाऽथ सविधं पल्लीभर्तुर्गत्वा स सत्वरम् । तस्यैव खड्गमाकृष्येत्याक्षिपत् परुषाक्षरम् ॥१२०|| 'पुरुषाधम ! रे तूर्णमुत्तिष्ठाऽस्त्रं करे कुरु । निरीक्षे पौरुषं वीरम्मन्यस्य तव साम्प्रतम्' ॥१२१।। इति ब्रुवन् द्रुतं तस्य, च्छित्त्वा खड्गेन कन्धराम् । भयोत्थवेपथु शीलवतीं रोषादभाषत ॥१२२॥ १. सुखकारणम् । २. भयोद्भूतकम्पाम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy