SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३४६ श्रीअजितप्रभुचरितम् सर्ग: ५ पल्लीशोऽभ्यधिता‘ऽऽहार-ताम्बूल-वसनादिभिः । सत्कारपूर्वमानन्दात्, त्वां तस्मै प्रददे द्रुतम् ॥१०३॥ कुटी पापकुटुम्बस्य, विधाय भ्रकुटीं ततः । साऽवदत् 'प्रेमहीनानां, सीमा त्वमसि निश्चितम् ॥१०४॥ अनुरक्तस्य भक्तस्य, स्वीकृतस्य जनस्य हा । परिहारे रसज्ञा ते, कथं वक्तुं प्रगल्भते ? || १०५॥ स च त्वां यदि वीक्षेत मद्वृत्तस्य तदा स्मरन् । तीव्ररोषभरापूर्णो, हन्त्येव परमो रिपुः ॥ १०६ ॥ " तत् सत्कर्तुं निकर्तुं वा स ते युक्तिज्ञ ! युज्यते ? | सहन्ते क्वापि किं वीरा, मानिनो निजवैरिणम् ?' ॥१०७॥ तत: पल्लीपतिः स्माह, 'मया स्नेहभरस्य ते । परीक्षार्थमदोऽवादि, न तु चित्तेन तत्त्वतः ॥ १०८॥ सत्यं त्विदं निरीक्षे चेत्तमरिं जीवितेश्वरि ! । करोमि करवालेन, तल्लूनशिरसं रयात् ' ॥१०९ ॥ ततः सा नितरां प्रीतचेताः शय्यातलस्थितम् । अङ्गुल्या दर्शयित्वा तमूचे रिपुरसौ स ते ॥११०॥ ततः पल्लीपतिः सद्यः, क्रोधारुणविलोचनः । दत्तहक्कः कशपाशे, धृत्वा वामेन पाणिना ॥ १११ ॥ असिना दक्षिणकरगतेन गलकन्दलम् । यावल्लुनाति तस्योच्चैस्तावत्पापाऽभ्यधत्त सा ॥ ११२ ॥ युग्मम् ॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy