________________
३४६
श्रीअजितप्रभुचरितम् सर्ग: ५
पल्लीशोऽभ्यधिता‘ऽऽहार-ताम्बूल-वसनादिभिः । सत्कारपूर्वमानन्दात्, त्वां तस्मै प्रददे द्रुतम् ॥१०३॥
कुटी पापकुटुम्बस्य, विधाय भ्रकुटीं ततः । साऽवदत् 'प्रेमहीनानां, सीमा त्वमसि निश्चितम् ॥१०४॥
अनुरक्तस्य भक्तस्य, स्वीकृतस्य जनस्य हा । परिहारे रसज्ञा ते, कथं वक्तुं प्रगल्भते ? || १०५॥ स च त्वां यदि वीक्षेत मद्वृत्तस्य तदा स्मरन् । तीव्ररोषभरापूर्णो, हन्त्येव परमो रिपुः ॥ १०६ ॥
"
तत् सत्कर्तुं निकर्तुं वा स ते युक्तिज्ञ ! युज्यते ? | सहन्ते क्वापि किं वीरा, मानिनो निजवैरिणम् ?' ॥१०७॥ तत: पल्लीपतिः स्माह, 'मया स्नेहभरस्य ते । परीक्षार्थमदोऽवादि, न तु चित्तेन तत्त्वतः ॥ १०८॥ सत्यं त्विदं निरीक्षे चेत्तमरिं जीवितेश्वरि ! । करोमि करवालेन, तल्लूनशिरसं रयात् ' ॥१०९ ॥ ततः सा नितरां प्रीतचेताः शय्यातलस्थितम् । अङ्गुल्या दर्शयित्वा तमूचे रिपुरसौ स ते ॥११०॥ ततः पल्लीपतिः सद्यः, क्रोधारुणविलोचनः । दत्तहक्कः कशपाशे, धृत्वा वामेन पाणिना ॥ १११ ॥
असिना दक्षिणकरगतेन गलकन्दलम् ।
यावल्लुनाति तस्योच्चैस्तावत्पापाऽभ्यधत्त सा ॥ ११२ ॥ युग्मम् ॥