________________
३४५
वरुणवर्मणः कथा साऽपि वीक्ष्याऽऽगतं कान्तं, तत्र कार्यमिषाद् द्रुतम् । परीवारं विसृज्याऽथ, रुरोद कपटे पटुः ॥१२॥ स्थविरा तां समाश्वस्य, ययावात्मीयसद्मनि । भृशमाश्लिष्य कान्तं तु, परा शय्यामशिश्रियत् ॥१३॥ अत्रान्तरे तयैवाऽऽशु, पतिद्रोहपटिष्ठया । आह्वायितो द्वारदेशं, पल्लिनाथः समागमत् ॥१४॥ 'हताऽस्मि व्यसनादस्मात्, कथं नाम च्छुटिष्यसि' । इत्युक्त्वा सा शठा शय्यातले का[न्तम] तिष्ठिपत् ॥१५॥ अथाऽऽश्लिष्य मुदा शय्यां, नीतः प्रेमातिरेकतः । पल्लीशस्तामवक् ‘कान्ते !, प्रसीदाऽऽदेशदानतः ॥९६॥ विधाय यक्षयात्राया, भङ्ग कमललोचने ! । अहं त्वरितमेवागां, त्वदाज्ञाभङ्गभीरुकः ॥९७।। स्वकिङ्करमिमं प्राणप्रिये ! कृत्ये नियुक्ष्व तत् । यथैष पूरयेत् प्राणैरपि हृत्कासितं तव' ॥९८॥ अथ दौःशील्यवसतिरवदत् सा 'न वेत्सि किम् ? । त्वत्सङ्गमं विना देहे, मम या वर्त्तते व्यथा ॥९९।। स्वदेशं स्वजनांस्त्यक्त्वा, त्वयैव हृतमानसा । विषमायां वसाम्यस्यां, पल्ल्यां प्रेमरसोदधे ! ॥१००॥ आसे पीयूषसिक्तेव, वीक्षमाणा त्वदाननम् । नरकाधोगतेवैषा, तिष्ठामि पुनरन्यथा' ॥१०१॥ एवं मधुरगी:क्लृप्तप्रीतिः सा पुनरप्यवक् । 'आयाति यदि मे भर्ता, तत् त्वं तस्य करोषि किम् ?' ॥१०२॥